________________
न्या. प्र. पू० २८ ]
न्यायप्रवेशवृत्तिपत्रिका
अनेकद्रव्या तु द्वित्वादिका परार्धान्ता । एतस्याश्च खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेम्यो निष्पत्तिरिति । परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम् अणुमहद्दीर्घद्रस्वभेदात् । तत्राणु द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुमनस्सु पारिमाण्डल्यम् । अनित्यं व्यणुक एव । तथा निरुपचरितं ह्रस्वत्वमपि । तथा महदपि द्विविधं नित्यानित्यभेदात् । तत्र नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यत्वं च व्यणुकादावेव । तथाऽभाक्तं दीर्घमपि । तथा कुवल मलकबिल्वादिषु महत्परिमाणम् । तथा तत्प्रकर्ष भावाभावमपेक्ष्य तेष्वेव भाक्तमत्वमपि । तथाहि कुवलापेक्षयाऽमलकं महत्तदपि च विल्वापेक्षयाऽण्वित्येवमन्यत्रापि । तथेक्षुवंशादिष्वसा दीर्घत्वम् । तेष्वेतत्प्रकर्ष भाषाभावमपेक्ष्य भाक्तं हस्वत्वमपि । तत्र महत्सु दीर्घमानीयतां दीर्घे च महदानीयतामिति व्यवहारदर्शनाद्दीर्घत्वमहत्वयोः परस्परतो विशेषो ज्ञेयः । अणुत्वहस्वत्वयोश्चाभाक्तयोः परस्परतो विशेषो योगिनामेव प्रत्यक्ष इति । पृथग्भावः पृथक्त्वम् । अयमस्मात्पृथगिति पृथग्व्यवहारकारणम् । अप्राप्तयोः प्राप्तिः संयोगः । स च त्रिविधः अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य यथा स्थाणोः श्येनेन विभूनां च मूतैः । उभयकर्म जो विरुद्ध दिक्क्रिययोः सन्निपातो यथा मल्लयोमेषयोर्वा । विरुद्धदिशि क्रिये ययोस्ती तयोरिति । संयोगजश्च संयोगो यथा तन्तुवीरणयोः संयोगे तदारब्धपटे वा वीरणसंयोग इति । कारणसंयोगिना हि कार्यमवश्यं संयुज्यत इति न्यायात् । प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । तत्रान्यतरकर्म जो भय कर्मजौ संयोगवत् । विभागजश्व विभागो यथा वंशदलयोर्विभागे तदवयवस्याकाशेन च विभाग इति । परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तं तद्धि दिक्कृतं कालकृतं च । तत्रैकस्यामेव दिशि व्यवस्थितयोर्वर्तमान कालवर्तिनोरेव पिण्डयोः संयुक्तसंयोगमहल्पभावे सत्येकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परत्वाधार पर दिक्प्रदेश योगाद्यः परोयमिति प्रत्ययो जायते स दिकृतपरत्वनिबन्धनः । अत्र च यस्य द्रष्टुरपेक्षया बहवः संयुक्तसंयोगाः स परत्वस्याधारो विप्रकृष्टावधिक उच्यते । यस्य चास्याः संयुक्तसंयोगाः सोऽपरस्वाधारः सन्निकृष्टाविधिक इति । यश्च विप्रकृष्टमवधिं कृत्वैतदस्मिन्नपरदिक् प्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स दिकृतापरत्वनिबन्धनः । कालकृतं च यथा । वर्तमान कालयोरनियतदिग्देशसंयुक्तयोयुवस्थविरयो रूढश्मश्रुकार्कश्यवली पलितादिसान्निध्ये सत्येकस्य द्रष्टुर्युवानमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परेण कालप्रदेशेन योगाद्यः परोऽयमिति स्थविरे प्रत्ययो जायते स कालकृत परत्वनिबन्धनः । यस्य स्थविरमवधिं कृत्वा यून्यपरकालप्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स कालकृतापरत्वहेतुकः । बुद्धिरुपलब्धिः प्रत्ययो ज्ञानं पर्यायः । सा चानेकप्रकारा अर्थानन्त्यात् । अनेकविधेष्वपि समासतो द्वैविध्यमविद्याविद्याभावात् । तत्राविद्या संशयाविपर्ययानध्यवसायस्वप्नभेदाचतुर्विधा । तत्र स्थाणुर्वा पुरुषो वेति मन्दमन्दप्रकाशे देशे ज्ञानं संशयः । गन्येवाश्व इति ज्ञानं विपर्ययः । तत्तद्वस्तुमात्रं पश्यतोऽपि तदुपदेशाभावाद्विशेषसंज्ञाप्रतिपत्तिर्न भवति यथेदममुकमिति सोऽनध्यवसायः । उपरतेन्द्रियग्रामस्य प्रतिनियतात्मप्रदेशस्थितमनस्कस्येन्द्रियद्वारे
( ६३ )