________________
( ६४ )
पार्श्वदेवकृता
[ न्या. प्र. वृ०२८
I
णैव यदनुभवनं मानसं तत्स्वप्नज्ञानम् । विद्याऽपि चतुर्विधा । प्रत्यक्ष लैकिकस्मृत्यार्षभेदात् । तत्र यदवितथमव्यपदेश्यं व्यवसायात्मकं ज्ञानं तत्प्रत्यक्षम् । तत्रावितथमित्यनेन विपर्ययज्ञानस्य व्यवच्छेदः । व्यवसायात्मकमित्यनेन च संशयव्यवच्छेदः । अव्यपदेश्यमिति व्यपदेशः शब्दः तमर्हति व्यपदेश्यं तत्प्रतिषेधेनाव्यपदेश्यं शब्दाजन्यं ज्ञानम् । अनेन चेन्द्रिय सहकारिणा शब्देन यज्जन्यते तद्वयवच्छेदः । तथा ह्यकृतसमयो रूपं पश्यन्नपि चक्षुषा रूपमिदमिति बुध्यस्वेति यावन्नोचार्यते केनापि तावत्तस्य रूपविषयं ज्ञानं न भवति शब्दोच्चारणानन्तरं च भवति । इत्युभयजज्ञानं प्रत्यक्षं नोच्यते किंतु शाब्दमेवेत्युक्तम् । प्रत्यक्षस्य च विषयो द्रव्यं त्रिविधं पृथिव्यप्तेजोरूपमिति । महत्त्वादरेकद्रव्यवत्त्वाद्रूपविशेषाञ्च त्रिविधा स्यैव च प्रत्यक्षता । द्रव्यस्थानि च गुणकर्मसामान्यान्यपि प्रत्यक्षविषयः । तथा प्रमाणफलादिव्यवस्था । यथा चक्षुरादिकारकसामग्री प्रमाणम् । द्रव्यादयः प्रमेयाः । प्रमाताऽत्मा । प्रमितिर्द्रव्यादिविषयं ज्ञानं फलमिति । लैङ्गिकं स्वार्थपरार्थभेदाद्विधा । तत्र त्रिरूप लिङ्गालिङ्गिन ज्ञानं स्वार्थम् । पञ्चावयवेन वाक्येन संशयितान्युत्पन्नविपर्यस्तानां परेषां स्वनिश्चितार्थप्रतिपादनं परार्थमिति । अत्रापि लिङ्गदर्शनं प्रमाणम् । प्रमेयमग्निः । प्रमाताऽत्मा । वह्निनाऽत्र भाव्यमित्येवमनुमेयज्ञानं च फलमिति । दृष्टश्रुतानुभूतेष्वर्थेषु यदभ्यासादरप्रत्ययजनितात्संस्कारासंस्कारादतीतानुभवविषयविषया स्मृतियैथैकपदस्मरणात् द्वितीयपदस्मरणम् । न विशेषाध्यारोपितेषु वा पदेषु स्मरण । आम्नायविधातृणामृषीणामतीनागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु धर्मविशेषाद्यत्प्रातिभं ज्ञानं तदा । इत्येवं बुद्धिः । स्त्रगाद्यभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्यन्नयनादि प्रसादजनकमुत्पद्यते तत्सुखं हेयम् । विषयादिविरक्तस्य प्रशमरूपं सुखमुपादेयम् । विषाद्यनभिप्रेत विषयसांनिध्ये सत्यनिष्टोपलब्धीन्द्रियार्थसंनिकर्षाद्यद्मर्षोपघात दैन्यजनकं तद्दुःखम् 1 तामर्षोऽसहिष्णुता उपघात उपहतिर्दुःखालम्बनं ज्ञानम् । दैन्यं दीनरूपता । दुःखाज्जायन्ते । स्वार्थ परार्थं अप्राप्तप्रार्थना इच्छा । प्रज्वलनात्मको द्वेषः । यस्मिन्सति प्रज्वलितमिवात्मानं मन्यते । स द्वेषो मत्सर इति । प्रयत्न उत्साहश्वेतसा साधयतो व्यापार इति यावत् । स द्विविधः । जीवनपूर्वक इच्छाद्वेषपूर्वकश्च । तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसंतानप्रेरकः । इतरस्तु हिताहितप्रातिपरिहारसमर्थस्य व्यायामस्य कायिकव्यापारहेतुः । अयमर्थः । कश्चिद्वयायोगो हितप्राप्तये हितसाधनकरादिप्राप्त्यर्थं भवति । कश्चिच्चाहितसाधनविषाम्यादिपरिहारायेति । द्रवत्वं शिथिलत्वं स्यन्दनकर्मकारणम् । गुरुत्वं गुरुभारवत्त्वं जलभूम्योः पतनकर्मकारणम् । अधोगतिमत्वाद्गुर्विदमित्यानुमानिकप्रत्ययग्राह्यम् । संस्कारस्त्रिविधः । वेगो वासना स्थितस्थापकश्च । तत्र वेगाख्यो यो मूर्तिमत्सु पञ्चसु द्रव्येषु पृथिव्यप्तेजोवायुमनः स्वरूपेषु स्पर्शवद्द्रव्यसंयोगविशेषविरोधी नियतायां दिशि क्रियाप्रबन्धहेतुः नोदनाभिघातसंयुक्तसंयोगाख्यनिमित्तविशेषापेक्षात्कर्मण उपजायते सोऽभिधीयते । यथेषोरिति । तत्र नुद्यनोदक
वा