________________
न्या. प्र. ०१९] न्यायपशवत्तिपत्रिका योर्यत्सहगमनं तन्नोदनम् । इहेषुद्यः । नोदकश्च हस्तप्रत्यञ्चादिः । नुद्यनोदकयोरेकस्य यत्रावास्थितिरपरस्य' चलनं सोऽभिघातः । यत्रैकस्मिन्नभिहन्यमाने तत्संबद्धाः परे चलन्ति । संयुक्तसंयोग इति । वासनात्यस्त्वात्मगुणो दृष्टश्रुतानुभूतेष्वर्थेषु स्मृत्यभिज्ञानहेतुः पटुभ्यासादरप्रत्ययजो ज्ञानमददुःखादिविरोधी यः सोऽभिधीयते । तत्र स्मृत्यभिज्ञानहेतुः केष्वित्याह दृष्टेति । दृष्टः प्रत्यक्षेण श्रुतः शब्देन अनुभूतोऽनुमानेन । अन्ये दृष्टश्चक्षुषा अनुभूतस्त्वगिन्द्रियेण श्रुतस्तु शब्देनैवेति ब्याचक्षते । एतेषां द्वन्द्वस्तेषु । किरूप: ? । पट्टभ्यासादरप्रत्ययनः । तत्र पटुप्रत्ययजः यथाश्चर्येऽर्थे पटुः संस्कारो जायते । यथा दाक्षिणात्यस्योष्ट्रदर्शनात् । स चातिशयेन स्मृतिहेतुर्भवति । यथा पूर्वपूर्वसंस्कारापेक्ष उत्तरोत्तरप्रत्ययोऽभ्यासः । तत्प्रत्ययजो यथा अभ्यासाद्विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारसापेक्षादुत्तरोत्तरप्रत्ययात् संस्कारातिशयो जायते । प्रयत्नेन मनः स्थापयित्वा अपूर्वमयं दिदृक्षमाणस्य विद्युत्संपातदर्शनवदेवहदे सौवर्णराजतपद्मदर्शनवद्वा आदरप्रत्ययजः संस्कारातिशयो भवति । स्थितस्थापकः स्पर्शवत्सु द्रव्येषु वर्तमानस्याश्रयमन्यथाकृतं यथावत् स्थापयति । धनुःशाखादिषु ऋजुतादिकार्येण च लक्ष्यते । स्नेहः स्निग्धत्वमपां विशेषगुणः पिण्डनविशदत्वयोर्हेतुः । धर्मः पुरुषगुणोऽतीन्द्रियः कर्तुः प्रियहितमोक्षाणां हेतुः । तत्र प्रियं सुखम् । हितं तत्साधनं श्रीखण्डायेव । नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । तत्साधनानि च धर्मश्रद्धाऽहिंसा सत्यवचनमस्तेयं ब्रह्मचर्य क्रोधत्यागः शुचिदन्यसेवनमासनप्रणिधानासेवनैर्देवताभक्तिरुपवासोऽप्रमादश्चेत्यादीनि । दृष्टं प्रयोजनमनुद्दिश्यैतानि तत्साधनानि । अधर्मोऽथात्मगुणोऽतीन्द्रियः कर्तुरहितप्रत्यवायहेतुः । तत्रागामिकटुफलजनकत्वादहितहेतुः स प्रत्येवाहितफलजनकः प्रत्यवायहेतुरिति । तत्साधनानि च हिंसानृतस्तयादीनि । अवश्यकर्तव्याकरणमयथाकरणं विहितकालातिक्रमेणानुष्ठानकरणं प्रमादश्वालस्यमित्येतानि । दुष्टाभिसन्धि चापेक्ष्याधर्मो जायते । आकाशाख्यसमवायिकारणनन्यः श्रोत्रग्राह्यः क्षणिक शब्दः । वर्णलक्षणोऽवर्णलक्षणश्च । तत्राकारादिहकारपर्यन्तो वर्णलक्षणः । शङ्खयादिनिमित्तकस्त्ववर्णलक्षणः । अकारादिवर्णव्यक्तीनां तत्रालक्ष्यमाणत्वात् । अत्र च गुणस्तत्र रूपरसगन्धस्पर्शा इति समासकरणम् । एते चत्वारोप्येकदैवैकत्र वस्तुन्यवश्यं प्राप्यन्त इति ज्ञापनार्थम् । संख्या इति च बहुवचनं संख्यात्वव्यतिरेकेणैकत्वादिसामान्यप्रदर्शनार्थम् । परिमाणानीति परिमाणत्वापेक्षया अणुत्वमहत्त्वाद्यपरसामान्यज्ञापनार्थम् । पृथक्त्वमित्येकवचनम् । पृथक वसामान्यापेक्षया एकपृथक्त्वाद्यपरसामान्यशून्यतादर्शनार्थम् । एकपृथक्त्वमित्यादिश्व व्यवहार एकत्वादिसंख्याकृत एव । संयोगविभागाविति द्विवचनं संयोगत्वविभागत्वन्यतिरेकेणापरसामान्याभावेऽप्यवश्यं संयोगापेक्षी विभाग इति ज्ञापनार्थम् । तथा परत्वापरत्व इत्यपि द्विवचनेन परत्वापरत्वसामान्यापेक्षयाऽपरसामान्याभावे साहचर्यज्ञापनार्थ समासकरणम् । तथा नुद्धीनामानन्त्येनानन्त्या