________________
( ६६ )
[ न्या. प्र. ० २९
I
1
द्बहुवचनम् इत्येवं शेषगुणेष्वपि भिन्नविभक्तिसमासादिकृतो विशेष आत्रेयादिशास्त्रादवसेयो नेहोच्यते । ग्रन्थगौरवात् । एते च चतुर्विंशतिर्गुणाः पृथिव्यादिद्रव्यनवकाश्रिता भवन्ति । तत्र किमपि द्रव्यं क्रियद्भिर्गुणैरुपेतमपि तत्तन्त्रानुसारतो बोद्धव्यं नेह प्रतन्यते ॥ पञ्च कर्माणीत्यादि । तत्र शरीरावयवेषु तत्संवद्धेषु च मुसलादिषु गुरुत्वप्रयत्नसंयोगेभ्यो यदूर्ध्वभाग्भिर्नमः प्रदेशेः संयोगकारणमवोभाग्भिश्च विभागकारणं कर्मोत्पद्यते तदुत्क्षेपणम् । तथा शरीरावयवेषु तत्संबद्धेषु य गुरुत्वप्रयत्न संयोगेम्यो यदूर्ध्व भाग्भिर्विभागकारणमघोभाग्भिश्च संयोगकारणं कर्मोंत्पद्यते तदपक्षेपणम् । ऋजुरवयवी येन कर्मणा कुटिलः संजायते तदप्रयावयवोपलक्षिताकाशादिप्रदेशविभागपुरःसरं मूलदेशोपलक्षिताकाशादिप्रदेशसंयोगपुरःसरं च तदाकुञ्चनम् । येन कर्मणा समुत्पनेनावयवी कुटिलः सन्नः संपायते मूलप्रदेशैविभागपुरःसरमय्यप्रदेशैः संयोगपुरःसरं च तत्प्रसारणम् | अभिहितप्रदेशेभ्यो येऽन्येऽनियत दिक्प्रदेशास्तैः संयोगविभागकारणं गमनम् । भ्रमणमटनम् । रेचनं विरेचनम् । स्यन्दनं स्त्रवणम् । आदिग्रहणान्निष्क्रमणप्रवेशनादिग्रहः । अवरोधानवरोधग्रहणमित्यर्थः । अयमर्थो यत्र चलनमात्रं प्रतीयते देशादेशान्तर - संचरणरूपं तत्कर्म सर्व गमनग्रहणेन गृह्यते । अत्रारकते कश्चित् । ननु चोत्क्षेपणादिष्वपि गमनमात्रसद्भावाद्गमनग्रहणेनैव तेषां ग्रहणं सेत्स्यति किं कर्मपञ्चकेनेति ? । नैवम् । उत्क्षेपणादीनां जातिभेदेनानुगतव्यावृत्तप्रत्ययदर्शनाद्भेदेनोपन्यासः । तथा सुत्क्षेपणमित्युत्क्षेपण वर्गेऽनुवर्तते ऽवक्षेपणादिवर्गाच्च व्यावर्तते । तथाऽपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्य व्यावर्तते । इत्यादिः सर्वत्रानुगतव्यावृत्तज्ञान वलाद्गमनभेदो वाच्यः । तथा प्रतिनियतदिविशिष्टकार्यारम्भ पलक्षितत्वा देतेषां भेदः । तथा गमनाभेदे सत्यपि नोत्क्षेपणादौ गमनप्रतीतिरस्ति । किं तूदायुपसर्गविशेषादूर्ध्वप्रापणत्वादिकमर्थान्तरमेव प्रतीयत इति पृथगुपन्यासः । तत्र परं सत्तेति । इह सत्ता त्रिषु पदार्थेष्वनुगतप्रत्ययकारणत्वात्परं सामान्यम् । द्रव्यत्वादि चापरम् । अनुवृत्तव्यावृत्तप्रत्यय हेतुत्वात्सामान्यविशेषश्चोच्यते । तथाहि द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिहेतुत्वात्सामान्यम् । गुणकर्मव्यावृत्तिहेतुत्वाद्विशेषः । द्रव्यत्वादित्यादिग्रहणाद्गुणत्वकर्मत्व पृथिवीत्वादेर्यहणम् ॥ तथेह प्रकृतोपयोगिपदार्थस्वरूपमेव यद्यपि निरूपितं तथापि द्रव्यादिष्वत्र विशेषसमवाययोरपि निर्दिष्टत्वात्तत्स्वरूपमपि प्रस्तावादुच्यते । यथा नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । तथा हि । विनाशारम्भरहितेषु नित्यद्रव्येष्ववाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्तमाना अत्यन्तव्यावृत्तत्रुद्धिहेतवो विशेषाः । अयमर्थः । यथा ं अस्मदादीनामश्वादिभ्यो गवादिषु जातिगुणक्रियादिनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा गौः शुक्ल. शीघ्रगतिरित्यादिस्तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु चान्यनिमित्तासंभवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं क्लिक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणी स एवायमिति प्रत्यभिज्ञानं च भवति ते विशेषाः । अथेतरेतराभावात्पृथक्त्वाद्वा प्रत्ययव्यावृत्तिः
पार्श्वदेवकृता---