________________
(६७)
न्या. प्र. वृ०२९] न्यायप्रवेशवृत्तिपत्रिका प्रत्यभिज्ञानं चेति न ततो विशेष इति चेत् न । इतरेतराभावस्य निषिध्यमानज्ञानजनकत्वमेव । न्यावृत्तसंज्ञा च निषिध्यमानज्ञानाद्विलक्षणमतो विशेषरूपनिमित्तान्तरकार्यम् । पृथक्त्ववशाच्च पृथगिति व्यवहारः पार्थक्यमात्ररूपो न स्वतस्मादयं विसदृश इत्येवरूप इति ॥ अयुतसि. द्धानामाधार्याधारभूतानामिहेतिप्रत्ययहेतुर्यः संबन्धः स समवायः यथेह तन्तुषु पट इति । इत्यलं प्रपञ्चनेति ॥तत्रेति । एवं सति अर्थान्तरं विभिन्ना । युक्त्या प्रमाणात् । द्रव्यादन्य इत्यर्थ इति । भावो द्रव्यरूपो न भवतीति यावत् । एकं च तद्रव्यं चेति । अत्र नवस्वपि द्रव्येषु द्रव्यत्वाभेदा. देकद्रव्यमिति व्यपदेशः प्रवर्तते । जात्यापेक्षया चैकवचनम् । तत्तव्यमित्येकैकं द्रव्यमित्यर्थः । अस्यास्त्याश्रयभूतमिति । अस्येति भावाश्रयिण आधेयरूपस्याश्रयभूतमाधारभूतमित्यर्थः । अथ समानाधिकरणो बहुव्रीहिरेव क्रियतां किं कर्मधारयान्मत्वर्थीयन कार्यमित्याह । समानेत्यादि । कदाचित्सर्वधनादिगणस्थेन्नर्थः कर्मधारय आद्रियते । कोऽर्थः । । सर्व च तद्धनं च सर्वधनं तद्विद्यते यस्यासौ सर्वधनी सर्वकेशीत्यादि मत्वर्थीयस्तथायोग इन्नर्थः कर्मधारय आद्रियत इति । अन्यथा सर्व धनमस्येति बहुव्रीहावस्त्यर्थस्योक्तत्वान्न मत्वर्थीयप्राप्तिः स्यात् । एवमिहापि । व्यक्तिभेदेन हेतोरर्थमाह । एकै कस्मिन्निति । अथ किं भावस्य द्रव्यलक्षणं न घटते येन तद्विलक्षणः साध्यते इत्याह । वैशेषिकस्य होति । तत्राद्रव्यमाकाशेत्यादि । न विद्यते जनकं जन्यं च द्रव्यमस्येत्यद्रव्यम् । तत्र परमाणूनां जनकं नास्ति । आकाशादीनां च न जन्यं नापि जनकमित्यद्रव्यमाकाशादयो नित्यद्रव्यमिति यावत् । तथानकं द्रव्यं जनकमस्येत्यनेकद्रव्यम् । अनेकद्रव्यजनकं कार्यरूपमनित्यद्रव्यमित्यर्थः । किं तदनेकद्रव्यमित्याह । द्वयणुकादयः स्कन्धा इति । द्वावणू परमाणू यस्य स्कन्धस्य द्वयणुकः । शेषाद्वेति कत् । द्वयणुक आदियेषां ते च ते स्कन्धाश्चेति विग्रहः । अनेन पृथिव्यादिद्रव्यचतुष्कं कार्यरूपं द्वयणुकादिक्रमेण निष्पन्नमनित्यं द्रव्यमुक्तम् । एकद्रव्यं त्विति । वीप्साप्रधानोऽयं द्रष्टव्यः । ततश्चैकमेकैकं द्रव्यमाश्रयभूतं यस्य द्रव्यत्वस्य भावाख्यस्य वा वस्तनः तदेकद्रव्यम् । एकद्रव्यवांश्चति । एकैकम्मिन्द्रव्ये वर्तमानश्च भाव इत्यर्थः। अथ किंरूपोऽसौ सामान्यविशेष इत्याह । स चेत्यादि । कथं पुनद्रव्यत्वादेः सामान्यविशेषता सिध्यतीत्याह । द्रव्यत्वं हीति । एवमिति । यथागुणत्वमिति चतुर्विशतिगुणेषु वर्तमानत्वात्सामान्यं द्रव्यकर्मभ्यो व्यावतत्वाद्विशेषः तथा कर्मत्वमपि पञ्चसु वर्तमानं सामन्यं द्रव्यगुणेभ्यश्च व्यावृत्तत्वाद्विशेषः । एतेन सामान्ययोगात्तदेव द्रव्यत्वं सामान्य विशेषयोगाच्च तदेव विशेषः । क्तुल्याधिकरणत्वाकर्मधारयः । अन्यथोभयोविरुद्धधर्मत्वात्सामान्याधिकरण्याभावात्कर्मधारयो न स्यात् । तेनेति सामान्यविशेषतुल्यं भावाख्यं वस्तु वर्तते इति तद्वत् । तेन तुल्यं किया चेदतिरित्यनेन वतिरिह । प्रयोगश्च यथा । न द्रव्यं भाव एकद्रव्यत्वात् । यद्यदेकद्रव्यवत्तत्तन्न द्रव्यम् । एकद्रव्यवांश्च भावः । तस्मान्न द्रव्यम् । अपि तु द्रव्याद्भिन्नः पदार्थः ।