________________
(६८) पार्थदेवकृता
[भ्या..१०१० ततश्चैतदुक्तं भवतीत्यादिना प्रयोगतात्पर्यमाह । एवं भावोऽपि नवस्वपि द्रव्येषु प्रत्येक वर्तमानो द्रव्यं न भवति । किंतु सद्रव्यमपि प्रतीतेविवद्रव्यात्पृथक्पदार्थ इत्ययः । एवं भावस्य गुणत्वकर्मत्वनिषेधको प्रयोगावपि गुणकर्माभिधानेन वाच्यौ । निर्गुणत्वं च गुणानां निष्कर्मत्वं च कर्मणां गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्व इति वचनादुच्यते । ननु न कर्म न गुणो भाव इति क्रमेणोपन्यस्य किमिति हेतूपन्यासे कर्मातिलच्यास्य प्रथमं निर्देशः कृत इत्याह । व्यत्यय इत्यादि । तेनापीति अभावत्वेन । भावाभावे चेति । महासामान्यतिरस्करणे च कर्तव्ये इत्यर्थः । एकपिदमपि । भावः सत्ता । भाव एव महासामान्यमेव न भवति कित्ववान्तरसामान्यमेव स्यात् । अय द्रव्यत्वं द्रव्येषु वर्तमानं भावः स्यात्तेन सत्तापि सेत्स्यतीति चेदाह । न चेति । एवमिति यथैतद्वक्तुं शक्यत इत्यर्थः । तदेवाह । न गुण इत्यादि। अत्रापीति । एवं भावस्य गुणनिषेधप्रयोगेऽपीदमपि वक्तुं शक्यते । तदेवाह भावेत्यादि । अथेह विपक्षवृत्तित्वं यत्सामान्य विरुद्धलक्षणं तत्कथमुपपद्यते येनायं विरुद्धः स्यादित्याह । समानेत्यादि भावस्य वैशेषिकेण प्रतिष्ठितस्य द्रव्यादीनां पृथग्भूतस्य पदार्थस्य विपक्षी द्रव्यत्वादिकम् । सामान्यविशेषस्तस्य भावस्तत्त्वं तस्मात् । किमुक्त भाति ! । भावविपक्षो ह्यमावः सामान्यविशेषरूपस्तत्रैव वृत्तिदर्शनादुपपद्यत एव विरुद्धलक्षणता । आहायमित्यादि । द्रव्यादीन्येव विविक्तपरमाणुक्षणक्षयिलक्षणानि स्वलक्षणानि भावो न तदतिरिक्तः कश्चन भावोऽस्तीत्यर्थः । तस्य द्रव्यादिभिन्नस्य भावस्याभावस्तदभावस्तस्मात् । कथं पुनद्रव्यादि. व्यतिरिक्तो भावाख्यः पदार्थो नास्तीति चेदुच्यते । तस्य विचारभारगौरवाक्षमत्वात्। तथाहि भावः स्वयं सन् असन् वा । यद्यसन् कथं तद्योगाद्वन्ध्यामुतादेरिवापरस्य सत्त्वम् । अथ सन् तर्हि स्वतोभ्यसत्तातो वेति द्वयी कल्पना । तत्र यदि स्वतः सत्त्वं स्वभावस्य तदा पदार्थानामेव स्वत एव सत्त्वं स्यादिति व्यर्थ तत्परिकल्पनम् । अथान्यसत्तातस्तर्हि तस्याप्यान्यतस्तस्याप्यन्यत इत्यनवस्था । किंच यदि स्वत एव सद्भावोऽभ्युपगम्यते तदा प्रमाणं वक्तव्यम् । तत्र न तावत्प्रत्यक्षग्राह्योऽसाविति वाच्यम् । यतो न व्यक्तिदर्शनवेलायां स्वरूपेण बहिर्लाह्याकारतयाऽसौ प्रतीतिमवतरन्नुद्भाति । न हि घटपटवस्तुद्वयप्रतिभाससमये तदैव घटादिव्यवस्थितमूर्तिभिन्नोऽभिन्नो वा भाव आभाति । तदाकारस्यापरस्य ग्राह्यतया बहिस्तत्राप्रतिभासनात् । बहि ह्यावभासश्च बहिरर्थव्यवस्थाकारी नान्तराभासः । यदि त्वान्तरोऽपि प्रतिभासोऽर्थव्यवस्थाकारी स्यात्तथा सति हृदि परिवर्तमानवपुषः सुखादेरपि प्रतिभासाद्वहिस्तद्वयवस्था स्यात् । न चेदमनुभूयते । अथ सुखादिराकारो बाह्यरूपतया न प्रतीतो न बहिरसौ नातिरपि तर्हि न बहीरूपतया प्रतिभातीति न बहीरूपाऽभ्युपगन्तव्या । एवं च बुद्धिरेव केवलं घटपटादिषु प्रतिभासमानेषु सत्सदिति तुल्यतनुराभाति न तु व्यक्तिव्यतिरिक्त भावमुद्योतयति यदि तर्हि न बाह्या जातिः । अस्तिबुद्धिरपि कथमेकरूपा प्रतिभाति । नहि बहिनिमित्तमन्तरेण एका. कारा सोत्पत्तिमती युक्ता। ननु केनोच्यते बहिनिमित्तनिरपेक्षा जातिमतिरिति । किंतु बहि तिर्न निमित्तम् । बाह्याश्च व्यक्तयः काश्चिदेव जातिबुद्धेनिमित्तम् । ननु यद्यनुगताकारा बुद्धियक्तिनिवन्धना