________________
न्या.प्र.०० न्यायप्रवेशवृतिपत्रिका
(६९) तथा सति यथा खण्डमुण्डन्यक्तिदर्शने गौर्गोरिति प्रतिपत्तिरुदेति न गिरिशिखरादिदर्शनेपि गौगरित्येकाकारा बुद्धिरुत्पद्यते नैवं भेदाविशेषेऽपि खण्डमुण्डादिव्यक्तिषु गौौरित्येकाकारा मतिरुदयन्ती समुपलभ्यते इति ता एव तां समुपजनयितुं समर्था इत्यवसीयते । न पुनर्गिरि. शिखरदिषु गौगौरिति भतिदृष्टेति न गिरिशिखरादयस्तन्निबन्धनम् । यथाऽ मलकीफलादिषु यथाविधानमुपयुक्तेषु व्याधेविरतिलक्षणं फलमुपलभ्यत इति तान्येव तद्विरतौ समर्थानीयवसीयते न पुनस्रपुषीदध्यादीनि भेदाविशेषेऽपि । अथ भिन्नेषु भावेषु सत्सदिति मतिरस्ति सत्सदिति ज्ञानजनकत्वमेव च जाते रूपम् । तदसत् । तदेकत्वं घटपटादिषु किमन्यदुतानन्यत् । न तावदन्यत् । तस्याप्रतिभासनात् । नाप्यनन्यत् । एकरूपाप्रतिभासनात् । न हि घटस्थ पटस्य चैकरूपं प्रतिभाति । सर्वेषां प्रतिद्रव्यं भिन्नरूपदर्शनात् । तस्मादप्रती. तेरमिनापि नातिनास्ति इति बुद्धिरेव तुल्याकारप्रतिभासा सत्सदिति शब्दश्च दृश्यत इति बुद्धिरेव भिद्यते । प्रत्यक्षाग्रहणे च भावस्य तत्पूर्वकस्वादनुमानप्रवृत्तेस्तद्राह्यापि जातिन । इत्यलं प्रपञ्चेन । सत्यमित्यादि । एवं मन्यतेऽस्मात्प्रत्याश्रयासिद्ध एवायम् । परं येषां भावाल्य वस्त्वस्ति तेषां भावस्य द्रव्यादन्यत्वसाधनेऽयं हेतुः प्रसिद्ध एव । ततः परेषां सिद्धोऽपि सन्विपक्षमात्रव्यापी यो हेतुर्भवति स विरुद्ध उच्यत इति निदर्शनपरमेतत् । ननु तथापि कथं निदर्शनार्थत्वम् ! यतो योऽसिद्धो भवति सोऽसिद्ध एव । कथं विरुद्धाख्यो दोषो द्वितीयस्तस्य स्यादित्याह । एकस्मिनिति । अनेकाश्च ता दोषनातयश्च तासामुपनिपातो दौकनं तस्मात् । तेनानेकदोषनात्युपनिपातेन भेदस्य नानात्वस्य दर्शनार्थत्वादेकस्मिन्नपि हेतावसिद्धता विरुद्धतालक्षणा दोषा बहवो भवन्तीति निदर्शनपरमेतद्विरुद्धभणनमित्यर्थः । आहेत्यादि । द्रव्यत्वादिदृष्टान्ततो यदि विरुद्धधर्मयोनना भवद्भिरत्र क्रियत इत्यर्थः । विरुद्धविशेषभावादिति । विशेषेण विरुद्धस्तस्य भावात् । अयमत्र भावार्थः । सर्वस्यापि हेतोर्विशेषविरुद्धधर्मयोजनायां दृष्टान्तवशेन क्रियमाणायां विरुद्धत्वमेव स्यात् । तथा ह्यनित्यः शब्दः कृतकत्वाद्धटवदिति योऽयं भवता शुद्धाभ्युपगमस्तत्रायमप्यस्माभिर्विरुद्धो हेतुर्वक्तुं शक्यते । यथाऽयमनित्यत्वं साधयति तथा तद्विपरीतं पाक्यत्वादिकमपि साधयति । तथा ह्येवमपि वक्तुं शक्यते । यथा कृतकत्वाद्घटवदनित्यस्तथा कृतकत्वाद्घटवत् पाक्योऽपीति । न चेदमिष्यत इति प्रेर्यार्थः । नेत्यादि । विरोधे नः पाक्यत्वादेधर्मस्य । अधिकृतो हेतुः कृतकत्वादिस्तेनान्वितं युक्तं यदृष्टान्तान्तरं पटादिकं तस्य बलेनैव निवृत्तेविरुद्धदोषस्य । एनमेवार्थ भावयति तथाहीत्यादिना । तभिवृत्त्या विरुद्धधर्मनिवृत्त्या । इत्यं च तनिवृत्तिः । यतो न यत्कृतकं तत्सर्व पाकमयं भवति यथा पट इति । अस्तु तर्हि पटवत्तन्तुमयोऽपि शब्द इति । यदि पटेऽप्युपन्यस्ते पटगततन्तुमयत्वादिविरुद्धधर्मोपादानं करोति तदा लगुडादिकमपरम् । सत्तासंबन्धेन द्रव्यगुणकर्मस्वेव सत्प्रत्ययः प्रवर्तते । सामान्यसमवायविशेषेष्वपि यद्यपि सत्प्रत्योऽस्ति तथापि स गौणः । न तु महासामान्यवशात् । किंतु