________________
(७०) पाचवकृता-
[न्या. प्र. ०.३१ त्रिष्वेव तद्वशात्स प्रत्ययो मुख्यः । अथ यथा गौणोऽपि तेषु सत्प्रत्ययः प्रवर्तते एवं द्रव्यगुणकर्मस्वपि भविष्यति किं सत्तासंबन्धादम्युपगम्यते । सत्यम् । मुख्यो ह्यर्थो यदा सत्प्रत्ययवानभ्यु. पगतो भवति तदा गौणप्रत्ययवान्सिध्येन्नान्यथेति । यथाहि सिंहाख्ये वस्तुनि मुख्ये सति तद्गुणेऽ ध्यारोपो माणवके सिंहाध्यारोपो युक्तो नान्यथेति । अथ तर्हि सामान्यसमवायविशेषेष्वपि सामान्यवशादेव सत्प्रत्ययः किमिति नेष्यते ? । नैवम् । सामान्येऽपरसामान्यायोगात् । अनवस्थादोषप्रसहुनत् । तथाहि सामान्ये येन सामान्येन सत्प्रत्ययस्तदपि सत्प्रत्ययविषयं ततस्तत्राप्यन्येन सत्प्रत्ययः तत्राप्यन्येनेत्यनवस्था । तथा समवायेऽपि । समवायस्यैकत्वात्समवाये सामान्ययोजकस्यापरसमवाय. स्याभावात्कथं सामान्यवशात्सत्प्रत्ययः । विशेषेष्वपि न सामान्यसंबन्धोऽस्ति । समानानां हि भावः सामान्यम् । तच्च साधारणं रूपम् । विशेषाणां च विसदृशरूपत्वात्कथं ते समानरूपा भवितुमर्हन्ति । विशेषत्वायोगप्रसङ्गात् । विशेषेषु सत्तासंबन्धे तेषां समानरूपत्वात्संशयोत्पत्तो निर्णयार्थमन्यो विशेषः । तत्राप्यन्यसंबन्धे सति संशयविषयत्वादन्यो निर्णयार्थ विशेषो वाच्य इत्यत्राप्यनवस्यैव प्रसज्यते। इति न सामान्यस्य तेष्वपि योग इति । तस्माद्गौण एव सत्प्रत्ययः सामान्यसमवायविशेषेष्वित्यलं प्रसङ्गेन । विस्तरार्थना त व्योमटीकादि निरीक्षणीयम् । प्रकृतमनस्त्रियते । तथा हीत्यादि । अयं प्रयोगार्थः । यथा द्रव्यत्वं नवस द्रव्येषु वर्तमानमपि न सत्प्रत्ययकर्त एवं भावोऽप्येकैकस्मिन्द्रव्ये वर्तमानो न सत्प्रत्ययकर्तेति । अथ द्रव्यत्वं सत्प्रत्ययकर्तृ स्यात् ततस्तद्वलेन भावोऽपि सत्प्रत्ययकतो स्यादित्याह । न चेति । न सत्प्रत्ययकर्तृ न सद्बुद्ध्युत्पादकम् । एवमिति । गुणकर्मणो वौ तौ च तौ हेतु च तयोरपि विषये वाच्यम् । यथा न सत्प्रत्ययकर्ता भावो गुणेषु भावात् गुणत्ववत् तथा कर्मस भावात्कर्मत्ववत् । न गुणत्वं कर्मत्वं च सत्प्रत्ययकर्तृ । गुणप्रत्ययकर्मप्रत्ययकर्तत्वादिति । उभयत्रेति । द्रव्यादिनिषेधेऽसत्प्रत्ययकर्तृत्वे च गमकत्वादित्यर्थः । आक्षेपेत्यादि । आहायम सिद्धान्न विशिष्यत इत्याद्युक्तावत्र बहु वक्तव्यमित्येतत्पर्यन्तौ सौं द्रष्टव्यौ ॥
सांप्रतमित्यादि ॥ तत्रेत्येवं सति । तत्र साधयेणेति । तत्र तयोः साधर्म्यवैधर्म्यदृष्टान्ताभासयोर्मध्ये । माधनं चामौ धर्मश्च माधनधर्मः क इत्याह । हेतुरिति । वाऽहितेत्यादि । आहिताग्निप्रभृतिषु शब्देषु विकल्पेन बहुव्रीहौ पर्वनिपातो भवतीत्यर्थः । अथायं तत्र नं दृश्यते । अतस्तदवस्थमेव प्रेयमित्याह । आहितेत्यादि । विकल्पवृत्तरिति । पूर्वनिपातस्य विकल्पेन प्रवर्तनादित्यर्थः । मध्यपदलोपि तृतीयातत्पुरुष कचिद्विदधति तानेवाह । अन्ये वित्यादि । न चैतदिति। प्राचीने उत्तरे सति नातिश्लिष्टमिदं व्याख्यानमित्यर्थः । एवमिनि । साध्यं च उभौ च साध्यसाधनरूपौ साध्योभये । समासे सत्युभयेति व्यवतिष्ठते । उभः स्वद्ववचने इति वचनात् । सूत्रस्य चायमर्थः। उम इति प्रयुज्यते स्वद्विवचन एव स्वद्विवचनाभावे उभय इत्येव प्रयुज्येत । ततः साध्योभये धर्मा असिद्धा ययोदृष्टान्तयोस्तौ । तथा तयोरपि भावनीयमिति समासादिकम् ।