________________
या म. पृ० ३३]
न्यायप्रवेशवृतिपञ्जिका
(७१)
अवसरः प्रस्तावस्तं प्राप्तः अवसरो वा प्राप्तो यस्येति विग्रहः । निर्दिश्यत इति । उदाहरणमिति शेषः । अथ यदि साधर्म्यदृष्टान्तोऽगमकः संजातस्तर्हि वैधर्म्यददृष्टान्तो ऽनित्यत्वाभावेन भवत्येवामूर्तत्वम् । यथा घटो न व तथा शब्दस्तस्मान्नित्य इति साध्यसिद्धय उपादीयतामन्वयव्यतिरेकयोरन्यतरेण साध्यसिद्धेरिति चेदाह । एतदाभासानामिति । साधर्म्यदृष्टान्ताभासानामित्यर्थः । अथ यदि साधर्म्यासिद्धोऽयं तथाप्याभासता कथमस्येत्याह । अयं चेति । साध्यासाधने च ते धर्मों च ताभ्यामनुयुक्तः स तथा । इह इति प्रस्तुतप्रयोगे । अन्त्यं पर्यन्तभूतं तच तत्कारणं च परमाण्वाख्यमन्त्यकारणं तस्य भावस्तत्त्वं तेन । अयमत्र भावार्थ: । कार्य समवायिकारणपूर्वकं तत्कारणमप्यन्यसमवायिकारणपूर्वकमिति यावदाद्यं द्वयणुकरूपं कार्यं तदपि समवायिकारणजन्यमिति तज्जनकं परमाण्वाख्यमेवान्त्यं कारणम् । तच नित्यम् । अन्यथा सर्वस्य कार्यस्य विनाशे समवायिकारणाभावात्पुनः कार्यस्योत्पत्तिर्न स्यादिति नित्यपरमाणुकारणैर्यणुकादिप्रक्रमेण कार्यमा - रम्यते । तस्मादन्त्यकारणत्वेन नित्या अणव इति । अथ परमाणूनामयोगिभिः प्रत्यक्षेणाग्रहणात्कथं तन्मूर्तत्वं निश्चीयत इत्याह 1 मूर्तत्वं चेति । मूर्त यत्तत्कार्यं परमाणुनिष्पनघटा दिनास्योपलब्धेर्दर्शनात् । तथा चोक्तं परमाणु लक्षणं यथा--कारणमेव तदन्त्यं नित्यो मूर्तश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च इति । स्पर्शद्वयं चाविरुद्धमेकत्राणौ भवतीति । तदमूर्तत्वप्रतीतेरिति । तस्या बुद्धेरमूर्तत्वं तस्य प्रतीतेस्वावात् । विद्यमानोभयासिद्ध इति । उभौ धर्मावसिद्धौ यत्र उभाभ्यां वा धर्माभ्यामसिद्धस्ततो विद्यमानश्चासावुभयासिद्धश्च स तथा । यद्वा दृष्टान्तधर्मिणि विद्यमाने वस्तुभूते सत्युभयमसिद्धं यत्रेति बहुव्रीहिः । तत्र घटवदिति । तत्रेति सदसतोरुभयोर्मध्ये | अत्रेति घटदृष्टान्ते । नन्वयमिति । आकाशाख्यः कथं पुनरसौ सांख्यस्य बौद्धं प्रत्युमयासिद्धतत्र ह्युभयधर्मसद्भावादित्याह । तथा इति । बौद्धस्यालोकलमसी एवाकाशं नेतरत्ततोन्यस्याकाशधर्मिणोऽभावात्किं नित्यत्वामूर्तत्वधर्मचिन्तया कृत्यम् : सति धर्मेणि धर्मचिन्तनं युक्तमिति मन्यते । अनन्वय इत्यादि । यद्यपि ग्रन्थान्तरे रागादिमानयं पुमान् वक्तृत्वादिषु पुरुषवत् इत्ययं वक्तृत्वरागादिमत्त्वयोः सत्त्वमात्रस्येष्टपुरुषे सिद्धत्वात् व्याप्त्यसिद्धेश्वानन्वयो दृष्टान्तदोषो उक्तः । अनित्यः शब्दः कृतकत्वाद्धटवदित्येवं रूपश्च भिन्नो दृष्टान्तदोषोऽप्रदर्शितान्वय उक्तस्तथाप्यत्रानन्वयाप्रदर्शितान्वययोरैक्यं विवक्षित मिति लक्ष्यते । अप्रदर्शितान्वय इत्यर्थ इति पर्यायप्रदानात् । न तु वीप्सयेति । गुणेन कृतकत्वादिना व्याप्तिरिह वीप्सा तया । अथ च किल यद्यदिति वीप्सया यदित्थं तत्सर्वमित्येवं वा व्याप्तिः प्रत्याय्या नान्यथा । एवं सतीत्यादि । आश्रयो घटस्तत्राश्रयिणौ कृतकत्वानित्यत्वाख्यौ धर्मौ तयोर्भावमात्रं सत्तामात्रम् । तस्याभिधानार्थम् । अन्यत्रेति प्रयोगान्तरे । कार्यहेतुप्रयोगे महानसे धूमवत्त्वमग्निमत्त्वं च दृष्टमित्येवमाश्रयाश्रयिभावमात्रप्रदर्शने व्यभिचारोऽपि संभवति । यतो महानसे कदाचिद्वह्निधर्मोकभयोरपि सद्भावः । कदाचिद्भूमरहितवद्वेरेव । कदाचिदुभयोरभावोऽपि । ततो व्याप्तिप्रदर्शन
1