________________
(७) पार्श्वदेवकृता-
न्या. प्र. वृ०॥ मन्तरेण दृष्टान्ते साध्यहेत्वोः संभवमात्रे प्रदर्यमाने महानसे कदाचिदुभयाभावोऽपि दृश्यत इत्युभयविकलमहानसवत्साध्याभावमपि कदाचित्प्रतिपाद्यतेति । अन्ये त्विद दूषणं नानुमन्यन्ते । सर्वशास्त्रेष्वेवं प्रयोगदर्शनात् । न च प्रतिवादिवचः स्वातन्त्र्येण प्रमाणम् । किं तर्हि ! । प्रमाणान्तरानुगृहीतम् । ततश्च यदि प्रत्यक्षादिसिद्धाऽस्ति व्याप्तिस्तदाऽनित्यः शब्दः कृतकत्वाद्धटवदित्येवमपि प्रतीयते । अथ न प्रत्यक्षादिसिद्धा तदा वीप्सासिद्धग्रहणाभ्यामपि न प्रतीयते । सिद्धानुवादार्थ हि दृष्टान्तवचो न त्वसिद्धविधायकमिति । साधर्म्यप्रयोगे हि साधनधर्मों दर्शितः । एतदेवाह मागित्यादि । न्यायमुद्रेति न्यायमर्यादोल्लङ्घनमित्यर्थः । अनेन पदेनैतदाह । कृतकत्वं वस्तुनोनित्यत्वस्वभावमित्येवं येन नावगतं तं प्रति यदनित्यं तत्कृतकमित्येवं क्रियमाणेऽनित्यत्वानुवादिनः कृतकत्वादनित्यत्वप्रतीतिर्न स्यादित्येवं दोषः प्रकृतेऽ नुषज्यते । येन च कृतकत्वमनित्यत्वस्वभावमेवेति विज्ञातं तं प्रति यद्यपि प्रकृते न्यायमुद्राव्यतिक्रमदोषादन्यो दोषो नोत्पद्यते तथाऽपि तं प्रत्यप्यन्यत्र व्यभिचारः स्यात् । एतदेवाह अन्यत्रेत्यादि । विपरीतव्याप्तिकरणे हि विधुदादिना व्यभिचारः प्रसज्यते । कथमित्याह । अनित्यानामपत्यादि । एतदुक्तं भवति । इहान्वयप्रयोगहेतुसत्त्वे साध्यसत्त्वोपदर्शने क्रियमाणे प्रयत्ना. नन्तरीयकमनित्यमेव भवतीत्ययोगव्यवच्छेदतयाऽवधारणार्थे गम्यमाने सति व्यभिचारो न स्यात् । साध्यसत्त्वे च हेतुसत्त्वे उपदर्यमानेऽन्ययोगव्यवच्छेदतयाऽवधारणार्थो गम्यते । यथा यदनित्यं तत्प्रयत्नानन्तरीयकमेवेत्ययं चार्थों व्यभिचार्येव । यतोऽनित्यं प्रयत्नानन्तरीयक घटायप्रयत्नानन्तरीयकं विद्युदादि चेत्युभयस्वभावमस्य नित्यं भवति । तस्मादन्वय..योगे हेतुसत्त्वे साध्यसत्त्वं दर्शनीयमिति । तत्रेति पञ्चसु मध्ये । आक्षेपेत्यादि । बहुव्रीही निष्ठान्तं पूर्व निपततीत्यादिको । एवमिति । उभाववयवौ साध्यसाधनरूपौ यस्य साध्यसाधनसमुदायस्यासावुभयः । साधनं च उभयश्च तो साधनोभयौ ताकव्यावृत्तौ यकभ्यां तौ तथा तयोः । यद्वा साधनव्यावत्तश्चौभयाव्यावृत्तश्चेति समस्याव्यावृत्तशब्दस्य लोपः । साधनमव्यावृत्तमस्मादित्यादिना समासकरणं वक्तव्यमित्यर्थः । अथ यदि वैधर्म्यदृष्टान्तोऽगमकस्तर्हि साधर्म्यदृष्टान्तेन यदमतं तन्नित्यं दृष्टं यथाकाशमित्येवं साध्य. सिद्धिः क्रियतामित्याह वैधयेत्यादि । अथात्राभासता कथम् । यावता वैधHदृष्टान्तोऽपि साक्षात्किमिति नेष्यत इत्याह अयं चेति । उभौ च तौ धर्मों चोभयधर्मों । साध्यं च साधनं च साध्यसाधने ते च ते उभयधर्मों च ताभ्यां विकलः । यत उक्तमित्यतोऽग्रे यत्र दृष्टान्त इति शेषः । इत्यादीत्यतोऽग्रे स वैधर्म्यदृष्टान्त इति शेषः । अथायमपि साध्यसाधनधविकलः स्यादित्याह न चायमिति । आहेत्यादि किमर्थमित्यतोऽये आदावुक्त इति शेषः । तस्येति साधर्म्यप्रयोगस्य । हेतुसत्त्वे साध्यसत्त्वमन्वयस्तत्प्रधानात् अन्वयस्य चेति । साधनधर्मः पुरःसरो यत्र साध्यधर्मोचारणे तच तत्साध्यधर्मस्योच्चारणं च तदेव रूपं यस्यान्वयस्य स तथा तस्य भावस्तत्त्वं तस्मात् । किमुक्तं भवति ।। साध्येन व्याप्तो हेतुदर्शनीयः साधर्म्यप्रयोगे अतो यः प्रागुञ्चायते