________________
न्या. प्र. वृ० ३४ ]
न्यायप्रवेशवृत्तिपञ्जिका
( ७३ )
I
साधनधर्मस्तद्विकल एवं साधर्म्यदृष्टान्ताभासेण्वादौ वक्तुं युज्यते । वैधर्म्यप्रयोगे तु नायं न्याय इत्याह व्यतिरेकेत्यादि । उभयोः साध्यसाधनयोर्व्यावृत्ती रूपं यस्य स तथा । यद्यप्येवं वैधर्म्यप्रयोगस्तथाप्यत्र साधनाव्यावृत्तदृष्टान्त आदौ किमिति नोक्त इत्याह साध्याभावे चेति । अयमर्थः वैधर्म्यप्रयोगे साध्याभावे हेतोरभावः क्रियते अतो दृष्टान्तोऽप्यत्र साध्याव्यावृत्त एवादौ वक्तुं युज्यते न साधनान्यावृत्त इति । प्रयोगः पूर्ववदेवेति । नित्यः शब्दोऽमूर्तत्वादित्येवंरूपा साध्यसाधनयोः प्रयुक्तिरित्यर्थः । अथेह कर्म किं पुण्यपापरूपं गृह्यते ऽन्यद्वेत्याह तच्चेति । उभयेत्यादि । आकाशवादिनं प्रति नित्यः शब्दोऽमूर्तत्वादाकाशवदिति साधर्म्य प्रयोगः सम्यगेव । यदा तु नित्यत्वाभावे न भवत्येवामूर्तत्वं यथाऽऽकाश इति तदोभयाव्यावृत्त इति । अथात्र यदमूर्त तन्नित्यं दृष्टं यथा परमाण्वादीति साधर्म्यदृष्टान्तं प्रदइर्थ यन्नित्यं न भवति तदमूर्त यथाकाशमिति वैधर्म्यदृष्टान्तो वक्तुं युज्यत इति तदाह नित्यत्वेत्यादि । अथ परमाणावमूर्तत्वस्याभावात्कथमिदं संगच्छत इति चेदुच्यते ! न पारिभाषिकममूर्तत्वं ग्राह्यं किंतु लोकरूढ्या मूर्तत्वं चक्षुषाऽदृश्यत्वमाश्रित्योक्तमिदमिति संभाव्यते । अव्यतिरेक इत्यादि । इहाप्यनिदर्शितव्यतिरेक इत्यर्थ इति पर्यायप्रदानादप्रदर्शितव्यतिरेको यो ग्रन्थान्तरे उक्तो यथा नित्यः शब्दोऽमूर्तत्वाद्घटवदिति तस्याचैवान्तर्भावं मन्यत इति लक्ष्यते । यत्र विनेति । यत्र प्रयोगे नित्यत्वादिसाधके नित्यः शब्दोऽमूर्तत्वादिति प्रभण्य यदनित्यं तन्मूर्तं दृष्टमित्येवं साध्यसाधननिवृत्तिमकृत्वैव घटेऽनित्यत्वं मूर्तत्वं च दृष्टमिति साध्यसाधनाभावमात्रं दर्शयति यदा तदाऽन्यतिरेक उच्यते । अथैवमपि भवतु को दोषः स्यादित्याह इत्थं हीति इत्थं ह्यनिदर्शितव्यतिरेकः । एकत्रेति घटादौ । अभिधेयमात्रं साध्यसाधनयोरभावप्रदर्शनमात्रम् । तस्याभिधानात् प्रतिपादनात् । वैधर्म्यप्रतिपादनं च यदनित्यं तन्मूर्त दृष्टमित्याद्यनुच्चारणेन कृत्वाऽर्थीपत्त्यादिना गम्यत्वे साध्यसाधननिवृत्तेरित्यर्थः । इह हि व्यतिरेकवाक्यमनुत्तवैव वैधर्म्य दृष्टान्तोसादृश्यमात्रेण साधक उपन्यस्तो न च तथा गमको भवतीति इष्टार्थासाधकत्वमतः स्वयमदुष्टोऽपि वक्तुरपराधाद्दुष्टः । साधने च वक्तुरपि दोषाश्चिन्त्यन्ते । साध्याभावे साधनाभावोपदर्शनं व्यतिरेक उच्यते । प्रस्तुतप्रयोग एवेति । नित्यः शब्दोऽमूर्तित्वादिति प्रतिज्ञाहेतुः स्वरूपे । तथाविधः साध्यसाधनानुगतो योऽसौ साधर्म्यदृष्टान्त आकाशादिकस्तेन युक्तो यदा यन्मूर्तत्वं तदनित्यमिति साधनाभावे साध्याभावं दर्शयति तदा विपरीतव्यतिरेकः । इह वैधर्म्यप्रयोगे साध्याभावे साधनाभावोपदर्शने व्यभिचारो न भवति । साधनाभावे च साध्याभावे च साधनाभावोपदर्शने व्यभिचार एव । तथाहि यन्मूर्त तदनित्यमित्युक्ते परमाणुना व्यभिचारः । स हि मूर्तोऽथ च नित्य एवेति । तथाऽनित्यत्वसाधकवैधर्म्यप्रयोगेऽपि साधनाभावपूर्वके साध्याभावे प्रदश्यमाने व्यभिचार एवेति प्रश्नपूर्वकं वक्तुमाह । आहेत्यादि । एवमपीति व्यतिरेकप्रयोगे साधनाभावे साध्याभावोपदर्शने क्रियमाणे इत्यर्थः । विद्युदादौ व्यभिचार इति विद्यदादी
१०