________________
(७४) पार्श्वदेवकृता
न्या. प्र.कृ.२४ नामप्रयत्नानन्तरीयकाणामप्यनित्यत्वादिति भावः । आभासत्वादेवेति । पक्षादिसादृश्यादेव । न तु सम्यक्पक्षादित्वेन । अयमर्थः । साध्यसिद्धयर्थमेते उपादीयन्ते । तदकरणात्तच्च तत्स्थानप्रयुक्तत्वाल्पक्षादीनामाभासात् । अत एव चैषां न साधनत्वमिति । यदि दूषणस्यावसरस्तधुच्यतामित्याह । तच्चेति । दृषणातिक्रमेण च तदाभासस्याप्यतिक्रमो द्रष्टव्यः । आत्मप्रत्यायनार्थमित्यात्मावत्रोधार्थम् । अथ प्रत्यक्षानुमाने इत्येवमेकविभक्तिनिर्देशोऽस्त्वित्याह । असमासेत्यादि । भिन्नश्चासौ विषयश्च तस्य ज्ञापनार्थम् । एतेन प्रत्यक्षानुमानविषये संख्यालक्षणागोचरफलविषयायाश्चतुर्विधाया विप्रतिपत्तेमध्ये । गोचरविप्रतिपत्तिं निराकरोति । गोचरश्च विषय उच्यते । तथाहि कैश्चिन्मीमांसकादिभिः प्रत्यक्षस्य सामान्यविशेषौ द्वावपि विषयौ कल्पिती अनुमानस्य सामान्य विषयो न विशेषः । नैयायिकवैशेषिकैस्तु परस्परविभक्ती सामान्यविशेषौ द्वयोरपि । सांख्यैस्तु द्वयोरपि सामान्यं विषय इष्टस्वैगुण्यरूपस्य सामान्यस्याभ्युपगमात् । भूतचतु. ष्टयं प्रमाणभूमिरिति च चार्वाकैः । इत्येवंविधा विप्रतिपत्तिः प्रत्यक्षादिविषये तन्निराकरणार्थमसमासकरणम् । भिन्नविषयत्वमेवाह । स्वलक्षणेत्यादि । लक्ष्यते तदन्यव्यपोहेनावधार्यते तत्राम्यादिकमनेनोष्णत्वादिनेति लक्षणं वस्तुनोऽसाधारणं रूपम् । ततः स्वं च तल्लक्षणं चेति स्वलक्षणम् । यद्वा स्वशब्देनेह वस्त्वभिधीयते ततः स्वस्य वस्तुनो लक्षणं स्वलक्षणमिति । तद्विषयो गौचरो यस्य प्रस्यक्षस्य तत्तथा । तथा चोक्तम् । तस्य विषयः स्वलक्षणं तदेव परमार्थसदिति । अयमत्र भावार्थः । वस्तुनः सामान्यासाधारणतया द्वैविध्यं संभवति । तत्र प्रथमाक्षसंनिपाते एकक्षणावस्थायि वस्त्वसाधारणरूपं सजातीयेतरव्यावृत्तं स्वलक्षणसंज्ञितं प्रत्यक्षस्य ग्राह्यम् । गृहीतसंतानश्च प्रत्यक्षपृष्ठभाविनो विकल्पस्याध्यवसेयः । प्रापणीयश्च प्रत्यक्षस्य संतान एव । क्षणस्य प्रापयितुमशक्यत्वात्संतानशब्देन चान्यक्त. गृहीतवस्तुनः सदृशापरापरक्षणप्रबन्ध उच्यते । इतरश्च यत्सामान्यं साधारणं विकल्पविज्ञानावभासि वस्तुनो रूपं तदनुमानस्य विषयोऽत एवाह । सामान्येत्यादि । सामान्यं साधारणं लक्षणं रूपं विषयो यस्य तत्तथा । तथाहि लिङ्गदर्शनादनग्निव्यावृत्तमग्निमात्रमेव तार्णवाविभेदरहितं सकलवह्निसाधारणं रूपं वह्निरत्रास्तीत्येवंरूपे ज्ञाने प्रमातुः प्रतिभासत इति सामान्यमेवानुमानस्य ग्राह्यम् । स्वसंवेदनप्रत्यक्षसिद्धमेव चानुमानज्ञानप्रतिभासिनोऽर्थस्य साधारणरूपस्वमिति । तथाऽनुमानस्याध्यवसेयः प्रापणीयश्च स्वलक्षरूप एवार्थः । तथाहि लिङ्गदर्शनाधो मया पह्निर्गृहीतः स एवायं इश्यत इति स्वलक्षणमेवाध्यक्स्यति । तदेव च प्रथमाक्षसंनिपाते प्राप्नोतीति । एतेन च द्विविधो हि विषयः प्रमाणस्य ग्राह्यश्च यदाकार उत्पद्यते प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्यो विषयोऽन्यश्चाध्यवसेय इत्याविर्भावितम् । संख्यानियममाहेति एतेन संख्याविप्रतिपतिं निराकरोति । अस्ति चात्र संल्याविप्रतिपत्तिः । सपाहि । मीमांसकाः प्रत्यक्षानुमानशब्दोपमानार्थापत्यमावलक्षणानि षटू प्रमाणानि मन्यन्ते ।