________________
न्या. प्र. १०३५] न्यावप्रवेशवृत्तिपत्रिका नैयायिकाः प्रत्यक्षानुमानशब्दोपमानलक्षणानि चत्वारि । प्रत्यक्षानुमानशाब्दलक्षणानि त्रीणि वैशेषिकाः । एतान्येव सांख्याः । चार्वाकास्तु प्रत्यक्षमेकैकम् । इत्येतन्निरासेन प्राह । द्वे एवं प्रमाण इति । शेषप्रमाणानामिति शब्दादीनाम् । अत्रैवेति । अनयोरेव मध्ये । अथ ययन्तर्मध्येऽन्तर्मावोऽन्येषां तर्हि स यथा भवति तथा दर्यतामित्याह । अन्तर्भावश्चेति । अयमर्थः । प्रत्यक्षानुमानव्यतिरिक्तप्रमाणानां यदि सत्यार्थाप्रापकत्वं तदाऽनयोरेवान्तर्भावो विज्ञेयः । अथार्थाप्राप्यकारीणि तदाऽप्रमाणान्येव तानि । संदर्शितार्थप्रापकं हि प्रमाणं स्यादिति भावः । प्रत्यक्षानुमाने च नियतार्थदर्शकत्वात्प्रमाणे एव । तथाहि प्रत्यक्षं सजातीयेतरल्यावृत्तं संतानाख्यं नियतमर्थ दर्शयति । अनुमानं तु लिङ्गसंबद्धं नियतमर्थ विजातीयन्यावृत्तं सजातीयानुगतं संतानाख्यं दर्शयति । शान्दादिकं त्वनियतार्थदर्शकम् । नद्यास्तीरे गुडशकटं पर्यस्तं धावत धावत डिम्भकाः इत्यादिविप्रतारकपुरुषवचनश्रवणात्प्रवृत्तानां मुग्धमतीनां डिम्मकानां कदाचिनियतार्थाप्राप्तेरिति । अत एते नियतार्थदर्शकत्वात्प्रमाणे नैतद्वयतिरिक्तं शाब्दादि नियतार्थानुपदर्शकत्वादित्यादिचर्चा ग्रन्थान्तराद्वेदितव्यः । नन्विह प्रत्यक्षमनुमानं चेति वचनादेव द्वित्वं लब्धं कि द्विग्रहणेन ? । उच्यते । द्विविधमेव प्रमाणमित्यवधारणार्थम् । तेनैकविधं चार्वाका. भिहितं त्रिचतुष्प्रकारं च वैशेषिकाद्याभिहितं निरस्तं स्यात् । असति तु द्विग्रहणे एवकाराभावात्प्रत्यक्षानुमाने तावत्प्रमाणेऽन्यान्यपि प्रमाणानि भवन्तीति स्यादाशङ्का । तति । निर्धारणार्थ इति । तत्र तयोः प्रत्यक्षानुमानयोर्मध्ये प्रत्यक्षजात्या प्रत्यक्ष निर्धार्यते । प्रत्यक्षाणां च बहुत्वाजातित्वं विज्ञेयम् । अनेन च लक्ष्यलक्षणविभागेन लक्षणविप्रतिपत्ति निराकरोति अस्ति चात्र विप्रतिपत्तिः । तथाहि ममिांसकादय एवमाहुः । निर्विकल्पकं यथा प्रत्यक्ष तथा जात्यादियोजनासहितमपि प्रत्यक्षम् । उपदर्शितार्थस्य प्रापकत्वात् । तथा चाहः अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकं बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् । ततः परं पुनर्वस्तुधर्मात्यादिभिर्यथा | बुद्धयावसीयते सापि प्रत्यक्षत्वेन संमतेति । तत्र प्रथमाक्षसंनिपाते विकल्परहितमर्थ दर्शनमालोचनाज्ञानमुच्यते । शुद्धवस्तुजं च तत् । जात्यादिधर्मयोजनारहितवस्तुन उत्पन्नत्वात् । तथा वैयाकरणा अथाऽऽहुः-वाचकसंसृष्टं वाच्यमिन्द्रियज्ञाने प्रतिभासते तेन शब्दसंयोजना भवत्यत इन्द्रियविज्ञानं सविकल्पकम् । तथा नैयायिकादीनां सविकल्पकं प्रत्यक्षमिति कल्पनापोढग्रहणेन निराकरोति । अधुनाऽवयवव्याख्यामाह । तत्रैवेस्यादि । तत्रैवं सति प्रतिगतमाश्रितमक्ष प्रत्यक्षम् । अथाक्षमक्षं प्रति प्रत्यक्षमित्यव्ययीभावः कस्मान प्रदर्श्यते येनाऽयं समास उच्यते स नपुंसकलिङ्गं स्यादिति नपुंसकलिङ्गतः स्यात्प्रत्यक्षशब्दस्य । ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यादिदमेव स्यात्प्रत्यक्ष ज्ञानं प्रत्यक्ष कुंडं चेत्यतोऽत्यादयः कान्ताद्यर्थे द्वितीययेत्यत्यादिसमासे सर्वलिङ्गता भक्त्यतोऽत्यादिसमासं तत्पुरुषाल्यं दर्शितवान् । अथ तत्पुरुषपोऽप्पक्षशब्दस्य नपुंसकलिझत्वात्परवाहिश