________________
पार्श्वदेवकृता
न्या. प्र. वृ० ३५ द्वन्द्वतत्पुरुषयोरिति परवल्लिङ्गतायां नपुंसकलिङ्गप्राप्तिरूपस्तदवस्थो दोषः स्यादिति चेदुच्यते । प्राप्ताऽऽपन्ना लिंगेति समासेषु परवलिंगता प्रतिषेधादभिधेयवल्लिङ्गन्तेति सलिंगः प्रत्यक्षशब्दः । सिद्धः । अथ कल्पनापोदमित्यत्रापोढकल्पनमिति बहुव्रीही स्यादित्याह समासाक्षेपेत्यादि । बहुव्रीही निष्ठान्तं पूर्व निपततीत्यादिकावित्यर्थः । अधुना तृतीयापञ्चमीतत्पुरुषं दर्शयति कल्पनयेत्यादिना । अत्र तृतीया पक्षकर्मिणि निष्ठा । पञ्चमीपक्षे कतरीति बोद्धव्यम् । तस्यैव कल्पनारहितस्य वस्तुनः स्वरूपनिर्देशो यच्छब्देनोच्यते एवंभूतं चेति विकल्पनारहितम् । अर्थ एव स्वलक्षणम् । तदपि अर्थस्वरूपमित्यर्थः । नहि ज्ञानक्षणगृहीतस्य स्वलक्षणस्यापि काचित्कल्पनास्तीति मन्यते । निर्विषयमपीति स्वप्नादौ निर्गोचरमपीत्यर्थः । सा चेत्यर्थः । रूपादाविति । रूप्यत इति रूपं दृश्यं घटादिवस्तु तदेवादिर्यस्य गन्धादेस्तत्तथा तस्मिन् । इह स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियपञ्चकभेदात्पञ्चधा प्रत्यक्षं समुत्पद्यते । तत्र रूपग्रहणेन सर्वजनप्रसिद्धं चाक्षुषं प्रत्यक्षमाह । आदिग्रहणेन शेषोन्द्रयप्रत्यक्षाण्यपीति भावः । नामजात्यादीत्यादि । पञ्चस्वपि कल्पनासु द्रव्ये सत्यपि यद्यत्राधिक्येन प्रसिद्धं तत्तेनैव जात्यादिना व्यपदेशमर्हति तत्र तस्यैवाधिक्याव्यस्य च गौणत्वादिति । कुतः कारणात्पुनर्नामादिकल्पनारहितं ज्ञानं प्रत्यक्षमिष्यते इत्याह । शब्दरहितेत्यादि । शब्देन नामजात्यादिमतो वाचकेन डित्थादिना रहितं स्वलक्षणं पुरुषगवादिकं हेतुर्यस्य प्रत्यक्षस्य तत्तथा । तस्य भावस्तत्वं तस्मात् । अथ शब्दरहितस्वलक्षणहेतुकं प्रत्यक्षं कुतः सिद्धमित्याह । उक्तं चेत्यादि । यथाहि वह्नौ धूमो जन्यजनकसंबन्धसंचद्ध उत्तरभावेन भवति एवं नार्थे जन्यजनकसंबंधसंबद्धा शब्दा उत्तरभावेन सन्ति । एतेन तदुत्पत्तिसंबन्धः समर्थयोर्नास्तीत्याचष्टे । स एवार्थ आत्मा येषां शब्दाना ते तदात्मानः अनेन तादात्म्यसंवन्धोऽपि नास्तीत्याह । तस्मिन्निति । अर्थे प्रतिभासमाने प्रत्यक्षेण परिच्छिद्यमाने प्रतिभासेरन् प्रदीप्यरन् शब्दा इति । अयमभिप्रायः । द्विविधो हि संबन्धः सौगतानां तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्च । तत्र तादात्म्यलक्षणो वृक्षत्वशिंशपात्वयोरिव । तदुत्पत्तिलक्षणस्त्वग्निमयोरिव । शब्दार्थयोर्द्विविधोऽपि संबन्धोऽपि न घटते । तथाहि न तावत्तादात्म्यलक्षणः । तादात्म्ये हि शब्दार्थयोः शब्दो वा म्यादर्थो वा न द्वयम् तथा शब्दार्थयोस्तादात्म्ये क्षुरिकामोदकादिशब्दोच्चारणे मुखपाटनपूरणादिप्रसंगो न च दृश्यते । तदुत्पत्तिलक्षणोऽपि न घटते । यतः केयं तदुत्पत्तिर्नाम है । किं शब्दादर्थोत्पत्तिराद्वा शब्दोत्पत्तिः ? । यदि शब्दादर्थोत्पत्तिः स्यात्तदा विश्वमदरिद्रं स्याद्धिरण्यादिशब्दोच्चारणादेव तदुत्पत्तेः । नाप्यर्थाच्छब्दोत्पत्तिस्ताल्वादिकारणकलापात्तदुत्पत्तेर्दर्शनात् । किंच ये किलातीता रामरावणादयोास्तेषामिदानीमभावात्कथं रामरावणादिकः शब्दोर्थमन्तरेण प्रवर्तितुमर्हति । तस्मादर्थ शब्दस्य न कथंचनापि संबन्धोऽस्तीति न शब्दाकारो विज्ञाने प्रतिभासते । तथा योऽपि चार्थेन विवक्षा जन्यते विवक्षया च शब्द इति । विवक्षया कार्यकारणभावः शब्दार्थयोरभ्युपगतः सोऽपि संन्यवहारार्थ न तु तत्वतः । ततः शब्दार्थयोः