________________
न्या. प्र. वृ० ३५]
(90)
।
1
संबन्धाभावाज्ज्ञाने गृह्यमाणेऽर्थे शब्दाकारस्य ज्ञानेऽप्रतिभासनान्निर्विकल्पकमेव प्रत्यक्षं प्रमाणम् । प्रत्यक्षपृष्ठभावी तु विकल्पो गृहीतग्राहित्वादप्रमाणम् । तथा हि । प्रत्यक्षपरिच्छिन्न एवार्थो विकल्पेन विकल्प्यतेऽतो गृहीतग्राही । परं यत्रार्थे प्रत्यक्षपृष्ठभावी विकल्प उत्पद्यते तत्रैष प्रत्यक्षस्य प्रामाण्यमिति विज्ञेयम् । तत्ववृत्तिरियम् । व्यवहारस्त्वेवम् । यथा रूपमात्रग्राहीन्द्रियज्ञानमुत्पद्यते । तेन च रूपसंतानमात्रं प्रवृत्तिः विषयीक्रियते । तेन तेषु रूपक्षणेषु द्वितीयादिषु संन्यवहार इति । तदित्यनेनेत्यादि । यदा यच्छब्देन निर्दिष्टं तस्य परामर्शः संस्पर्शः प्रत्यक्षमित्यत्र तत्पुरुषस्तावद्दृष्टोऽतः स संप्रदर्शितो वृत्तिकृता । अव्ययीभावोऽप्यदृष्ट एवातस्तं सूत्रकार उपदर्श - यति । अक्षमक्षं प्रतीत्यादिना । नन्वेवं सति प्रत्यक्षो घटः प्रत्यक्षा साटिकेति न स्यात् । उच्यते । प्रत्यक्षं ज्ञानहेतुत्वात्साऽपि सोऽपि वा प्रत्यक्षः । प्रत्यक्षेऽयुपचारात्पुंस्त्वं स्त्रीत्वं वा स्यात्प्रत्यक्षशब्दस्य | आहेत्यादि । विषयसामर्थ्यादपीति न केवलं स्वप्नादौ निर्मोचरमभ्युद्यत इत्यर्थः । तदिहार्थस्यापि ज्ञानकारणत्वाद्यथा ज्ञानं प्रत्यक्षमित्युक्तं तथा प्रत्यर्थं चेत्यपि वक्तुं युक्तमिति प्रेर्यार्थः । उभयोरपि साधारण साधारणत्वं भावयति तथा हीत्यादिना । अथ किमर्थमिन्द्रियविज्ञानस्य हेतुर्न भवतीत्याह अर्थस्त्विति । मनोविज्ञानस्यापीति संकल्पजहृदयज्ञानस्य तथा मानसI प्रत्यक्षस्यापि त्रेत्यर्थः । अथ यद्यसाधारणमिन्द्रियमर्थस्तु साधारणस्तथाऽपि किमित्य साधारणेनैव व्यपदेशः कृतो न साधारणेनेत्याह । असाधारणेन चेति । व्यपदेशस्य भणनस्य वृत्तिः प्रवृत्तिः क्व ? । यथेत्याह । भेरीत्यादि । भेरीशब्दोत्पत्तौ भेर्यसाधारणं कारणम् । तत्र हि पुरुषप्रयत्ननिर्वर्थो वादनादिको व्यापारोऽस्ति । न हि तया केवलया शब्दो जन्यते । तथा क्षितिसलिलपवनादीन्यपि कारणानि सन्ति यवाङ्कुरोत्पत्तौ । किंतु न तेषां व्यपदेश: साधारणत्वादन्यस्यापि युगन्धयङ्करस्य निष्पादने समर्थत्वात्तेषां यव इति चासाधारणम् । अतस्तेनैव व्यपदेशस्तद्वयपदिश्यत इति तत्प्रत्यक्षज्ञानम् । आहेत्यादि । तदिति मनोविज्ञानादि । अनेनेति प्रोच्यमानेन प्रत्यक्षलक्षणेन कुतो न संगृहीतमिति चेदुच्यते । अक्षैर्व्यपदेशादक्षाश्रितस्यैव ग्रहणात्ततश्चाक्षाश्रितस्यैवेन्द्रियविज्ञानस्य प्रत्यक्षशब्दवाच्यता स्यात् न मनोविज्ञानस्वसंवेदियोगिज्ञानानाम् । तेषामक्षानाश्रयत्वात् । तेषां चाग्रहणेऽन्यापि लक्षणं स्यात् । अत एवाह इति कथमिति । व्याप्नोतीत्येवं शीलं यस्य तद्यापि । णिन् | तस्य भावो व्यापिता । व्यापकत्वमित्यर्थः । अव्याप्तिरपि लक्षणदोष एवोक्त इति प्रेर्यार्थः । उच्यत इत्यादि । अर्थपरिच्छेदकत्वेन साक्षात्करोति यज्ज्ञानं तदर्थसाक्षात्कारि । तस्य ग्रहणात् । अर्थार्थसाक्षात्कारिग्रहणे मनोविज्ञानादेः किमायातमित्याह । मनोविज्ञानादेरपि । न केवलमिन्द्रियविज्ञानस्येत्यपेरर्थः । तदव्यभिचारादर्थसाक्षात्कार व्यभिचारात् । तदिति मनोविज्ञानादि । नन्वेवमर्थ साक्षात्कारि विज्ञानं प्रत्यक्षमित्यायातम् । अक्षमक्षं प्रति वर्तत इति समासश्च सूत्रकृत्प्रदर्शितेन्द्रियजमेव ज्ञानं विषयीकरोति ततः कथमर्थसाक्षात्कारिज्ञानझणेऽपि मनोविज्ञानादेः सग्रहः स्यादित्याह । लौकिकं त्वित्यादि । इन्द्रियाश्रितमेव ज्ञानं
न्यायप्रवेशवृत्तिपत्रिका