________________
पार्श्वदेवकृता--
[न्या. प्र. वृ० ३६ लोकरूढं न मनोविज्ञानादि । अतस्तदेवाश्रित्याव्ययीभावः प्रदर्शितः । तर्हि मनोविज्ञानादिः स्वरूपं प्रदर्श्यताम् । नैवमन्यतोऽक्सेयमत एवाह कृतं प्रसङ्गेनेत्यादि॥अधुनानुमानावसरः। तत्र यद्यपि द्विविधमनुमानं स्वार्थपरार्थभेदेन तथापि साधनाभिधानेन परार्थानुमानं प्रागुक्तम् । इदानी स्वार्थानुमानमुच्यते । तत्र शब्दात्मकत्वात्परप्रतिपत्तिनिबन्धनं परार्थमुच्यते । स्वप्रतिपत्ति. निबन्धनं तु ज्ञानात्मकं स्वार्थमिति । ननु तर्हि यः शब्दोच्चारणं विनार्थ न प्रतिपद्यते तस्य शब्दात्मकमप्यनुमानं स्वार्थ प्राप्नोत्यात्मप्रतीत्यर्थ शब्दस्योच्चारणादुच्यते । आत्मप्रतिपत्तये सर्वदेव यदुपयुज्यते तत्स्वार्थमुच्यते । शब्दात्मकं त्वात्मप्रतीतये न सर्वदोपयुज्यते किंतु परार्थमपि तदुच्चार्यते । अतः परार्थ शब्दात्मकम् । स्वार्थ तु ज्ञानात्मकामति । अनुमितिरनुमानमित्यनेनाप्यनवबोधाख्यं फलमनुमानशब्दवाच्यमुक्तं तत्किमित्याह । तञ्च लिङ्गादर्थदर्शनमिति । तत्र लिङ्गचते गम्यतेऽनेनार्थ इति लिङ्गम् । लीनमर्थ गमयतीति वा लिङ्गम् । पृषोदरादित्वान्निपात्यते लिङ्गशब्दः । तस्मादर्थ्यत इत्यर्थो वह्नयादिस्तस्मिन् ।दृष्टिदर्शनं ज्ञानमर्थदर्शनम् । किंलक्षणं पुनर्लिङ्गमित्याह । लिङ्ग पुनस्त्रिरूपमिति । रूपशब्दो लक्षणवाची । ततस्त्रिरूपं त्रिल. क्षणमित्यर्थः । तदयं भावार्थः । साध्याविनामाक्निः पक्षधर्मत्वादित्रिरूपयुक्तात्कार्यस्वभावाख्यलिङ्गाघदर्थे सामान्ये सजातीयानुगते विजातीयव्यावृत्ते वह्नयादौ ज्ञानमग्निरत्रेत्यादिरूपमुत्पद्यते तज्ज्ञानमनुमानज्ञानम् । तत्रापि प्रथमं लिङ्गज्ञानं भवति तदुत्तरं च लिहाल्लिविज्ञानं स्यादिति विज्ञेयम् । तत्र सामान्येन साध्याविनाभावित्वस्मरणज्ञानं यत्तलिज्ञानम् यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणम् । विशिष्टदेशादिसंबन्धेन यदुदेति यथाऽत्रायं धमो वहिन इति वह्निरत्रास्तीति वह्निविशेषज्ञानं तल्लिङ्गिज्ञानम् । तथा स्वभावहेतावपि प्रथमं साध्यानन्तरीयकं साधनं स्मर्तव्यम् । यथा कृतकत्वं नामानित्यत्वस्वमिति तदेतत्सामान्यस्मरणं लिङ्कज्ञानं सामान्येन स्मृतमथै पुनर्विशेषे यदा योजयति यथेदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति तदा विशिष्टस्य शब्दगतकृतकत्वस्यानित्यत्वस्वभावस्मरणमनुमानज्ञानम् । नन्वनुमानलक्षणमेकेनैवोदाहरणेन चरितार्थ स्यात्किमित्युदाहरणद्वयं दत्तमित्याह । उदाहरणेत्यादि । वस्तुन. सत्ताया विधेरिति यावत् । साधनं सिद्धिनिश्चयो भवति यकाभ्यां तो वस्तुसाधनौ वस्तुगमको कार्यस्वभावाख्यौ तौ तथा । तौ च तो हेतु च । ततो वस्तुसाधनौ च तौ तौ च तयोर्द्वयं तस्य ख्यापनार्थ द्वावेव वस्तुसाधनौ हेत् अन्यस्त्वनुपालम्भाख्यो यो ग्रन्थान्तरेषतः स प्रतिषेधहेतुरेवेति कथनार्थम् । ननु सोपीह किमिति नोक्तो यावद्धेतुद्वयस्यैवह चर्चा कृता। सत्यम् । एवं मन्यते । स्वभावहेतोरनुपलब्धे पृथक्करणं कृतम् । ग्रन्थान्तरेष्वपि यतत्प्रतिपत्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ स्वभावप्रतिपत्यध्यवसायीति । परमार्थतस्तु प्रतिषेध्यस्याभावव्यवहारयोग्यता वस्तुभूतवै प्रदेशस्य साध्या । यतः केवलं भूतलं. तज्ज्ञानं च घटाभावस्य स्वरूपं नापरो भावः कश्चिदित्यतः