________________
न्या. म. वृ० ३६ ] न्यायप्रवेशवृत्तिपत्रिका स्वभावहेतुरेवायम् । अत इहानेनांशेन स्वभावहेतावन्तर्भावं कृत्वा हेतुद्वयस्य कार्यस्वभावाख्यस्य चर्चनं कृतमिति । त्रिविधां विप्रतिपत्तिं निराकृत्याधुना फलविषयां विप्रतिपत्तिं निराफुर्वनाह । उभयत्रेत्यादि । कथं पुनः प्रमाणस्य फले विप्रतिपत्तिरिति चेदुच्यते । प्रमाणं करणं प्रमितिक्रियां विना न भवति यथा छेदनक्रियां विना न परशुः करणं स्यात् । ततश्च प्रमाणात्प्रमेयरूपादौ परिच्छित्यादिलक्षणेन फलेन पृथग्भवितव्यम् । यथा परशोर्वक्षादौ छेये द्वैधीमावादिकं फलं पृथगित्यतो मीमांसकेनेन्द्रियं प्रमाणं तस्य वार्थेन संगतिर्मनसो वेन्द्रियैयोग इत्यादि प्रमाणमिष्यते । अर्थविवोधश्च फलम् । हानोपादानादिकं चेति । तेन पूर्व प्रमाणमुत्तरं फलमिति संपद्यते । तथा नैयायिकादयोऽप्येवंभूतमेव प्रमाणफलमिच्छन्ति । तदेषां प्रत्यक्षविषये फलविप्रतिपत्तिः । अनुमाने तु विप्रतिपत्तिर्यथा लिङ्ग प्रमाणं ज्ञानं फलम् । ज्ञानं प्रमाण हानोपादानं फलमिति । तां निराकरोति । कुत इति वितर्कस्यायमर्थः । प्रत्यक्षमनुमानं च प्रमाणम् । तच्च साधकतमत्वात्करणरूपम् । फलं च परिच्छित्त्यादिकं तत्साध्यत्वात्कर्मभूतमनयोश्चान्यत्वं सुप्रसिद्धमिति कुतः कस्मात्तदेव ज्ञानं फलं नार्थपरिच्छित्तिहानादिकमित्याचार्य आह । अधिगमरूपत्वात् । अर्थपरिच्छित्तिस्वरूपत्वात्प्रत्यक्षानुमानलक्षणस्य ज्ञानस्य । अतस्तदेव ज्ञानमर्थपरिच्छित्तिरूयं प्रमाणफलम् एतदेव भावयति तथाहीत्यादिना । परिच्छेदरूपमेवार्थप्रतीति जनयदेव संज्ञानमुत्पद्यते । न चार्थपरिच्छित्तिरूपाज्ज्ञानात्फलं पृथक् किंचिदस्त्यत एवाह । न चेत्यादि । अर्थपरिच्छेदं विनाऽन्याद्भिन्नं ज्ञानस्यार्थपरिच्छित्तिरूपस्य फलमित्येव न किंतु तदेव परिच्छित्तिरूपं ज्ञानफलं कुत इत्याह । भिन्नाधिकरणत्वादिति । भिन्नमधिकरणमाश्रयो यस्य फलस्य तत्तथा । तस्य भावस्तत्वं तस्मात् । अयमर्थः । ज्ञानाचतिरिक्तं ययुच्यते फलं हानोपादानादिकं तदा तत्फलंप्रमातुरेव म्यान्न ज्ञानस्य । तथाहि ज्ञानेन प्रदर्शितेऽर्थे हानादिकं तद्विषये पुरुषस्यैवोपजायते । अतो हानादिकस्य मिन्नाश्रयत्वान्न फलत्वं मन्तव्यमित्यादि बहु वक्तन्यम् । अत एवाऽह । अत्रेत्यादि । अथ किमिहैतावता तात्पर्य स्थितमित्याह । सर्वयेत्यादि । अपि तु त एव फलो एवं मन्यते । अर्थपरिच्छेदकत्वेन विज्ञाने उच्यन्ते । स्वविषयनिश्चयजनकल्वे सति समाप्त: प्रमाणव्यापार इत्यर्थः परिच्छित्तिरेव फलं न हानादिकमिति । आइत्यादि । तद्भावामिमतयोरपि प्रमाणाभावेनाभिमतयोरित्यर्थः । यदि प्रमाणाभावः स्यात्तदानीं भवतु चेत्प्रमाणफलसद्भावः स्थितः किमपरेण कार्यमित्याह । प्रमाणाभावे चेति । अत्रेति प्रेयों सव्यापारेत्यादि । व्यापारो नाम प्रमाणस्य नीलादिवस्तुमाहकत्वम् । ततो व्यापारयुक्तस्य प्रमाणस्य यका ख्यातिः प्रतीतिरर्थसादृश्यं ज्ञानस्याऽर्थाकारता । तस्याः प्रमाणत्वमिति विषयस्यार्थीकारो यस्य ज्ञानस्य तत्तथा । ग्राहकाकारस्यति । अयं गृह्णातीति प्राइकम् । प्रत्यक्षादिज्ञानं तस्याकारः सादृश्यमर्थेन सह । तस्य कोऽर्थोऽर्थेन सह यत् ग्राहकसादृश्यं तस्य प्रमाणता । तथाहि । यस्माद्विषयाद्विज्ञानमुदेति तद्विषयसदृशमेव मवति । तथा नीलादुत्पद्यमानं नीलाशामित्यतोऽ