________________
(८०)
पार्श्वदेवकृता---
[न्या.प्र.० १७ र्थसारूप्यमस्य प्रमाणमर्थपरिच्छित्तिश्च फलामिति । अन्ये वित्यादि । संश्चासौ शोभनवासी व्यापारश्चेत्यर्थः प्रमाणफलयोर्मध्ये प्रमाणं प्रति या व्यवस्था नैयत्यं तत्कारित्वाद्व्यापारस्य पूर्वोपवर्णितरूपस्य शोभनत्वम् । तस्मादिदमत्रैदंपर्यम् यथा प्रत्यक्षस्यार्थप्रमितिः फलं न हानोपादानादिकमर्शकारश्च प्रमाणं नेन्द्रियादिकम् । अनुमानस्यापि प्रमितिः फलमकारश्च प्रमाणमिति अधुनेत्यादि । अर्थान्तर इति । अन्तरं व्यवधानं विशेषश्चोच्यते । अत्र च विशेषार्थोऽन्तरशब्दो ग्राह्यः । ग्रहणकवाक्यमिति । गृह्यते संगृह्यतेऽर्थोऽनेनेति ग्रहणम् । करणे युट् स्वार्थे च कन् । तच्च तद्वाक्यं च ग्रहणकवाक्यम् । संपिण्डितार्थग्राहकवाक्यमित्यर्थः । शब्दरूपमिति । शब्देन घटोऽयं जलाहरणक्षमोयमित्याद्यन्त ल्परूपेण आरूपितम् । संश्लिष्टं संयुक्तम् । शब्दारूपितम् | तदर्थस्वलक्षणविषयत्वादिति ज्ञानमर्थ एव स्वलक्षणं सजातीयेतख्यावृत्तं वस्त्वर्थस्वलक्षणम् । तम्मिन्नविषयो यस्य ज्ञानस्य तत्तथा । तस्य भावस्तत्वं तस्मात् । अनेन च प्रत्यक्षपृष्ठभावी विकल्पो गृहीतग्राहिकत्वान्न प्रमाणमित्यावेदयति । अनुमानविकल्पस्तु प्रमाणं विज्ञेयो यतो यत्सामान्यमनुमानविकल्पप्रतिभासिकारणव्यापकसंबद्धलिङ्गनिश्चयद्वारा यातं तत्तदेशसंबन्धितयानधिगतमेव गृह्यत इति गृहीतग्राहिकत्वाभावात्तद्विषयो विकल्पः प्रमाणम् । स्वार्थानुमानज्ञानं हेतुपूर्वकमेव भवति । अतस्तद्विपक्षत्वात्तदाभासमपि हेत्वाभासपूर्वकमेव युज्यते । अतो दृष्टान्ताभासपदपरिहारेणानुमानाभासलक्षणमाह । हेत्वाभासपूर्वकमिति । पूर्वशब्दः कारणपर्यायः । ततो हेत्वाभासः । पूर्व कारणं यस्याज्ञानस्य तत्तथा असिद्धादीनां स्वरूपम् । तस्मिन्नभिज्ञो ज्ञेयः प्रमाता । तस्यायमर्थोऽन्युत्पन्नस्य हेत्वाभासश्रवणसंदर्शनानन्तरमनुमेये यज्ज्ञानमुत्पद्यते तद्नुमानाभासमिति । उक्तानां न्यस्तानां शेषमुद्धरितमुक्तशेषम् इह दूषणस्य प्राक्साधनाभासे साधनशब्दमुपचर्य साधनाभासं वृत्तिकृता विषय उक्तः सम्यक् साधनस्य षयितुमशक्यत्वात् । ततश्च दूषणलक्षणे सर्वत्र साधनशब्देन साधनाभासमेव वाच्यम् । प्रमीयते साध्यते प्रमेयमनेन हेत्वादिनेति प्रमाणम् । हेत्वादिवचनं तस्य दोषप्रकाशकमित्यर्थः । अथ दूषणानीति बहुवचनं किमर्थम् ? । एकवचनमेव निर्दिश्यतामित्याह । बहुवचनेत्यादि । एकमेकं प्रति प्रत्येकम् । न केवलं सामान्येनाशुद्धः प्रयोग एकमेव दूषणं भवति । किंतु प्रयोगेऽशुद्धे यावन्तः प्रतिज्ञादोषदुष्टास्तावन्त्येव तदोषोद्भावनानि पृथग्दूषणानीति बहुवचनेन प्रतिपाद्यते साधनदोषो न्यूनत्वं सामान्येनेति । न्यूनत्वं पक्षाद्यवयवानां यथोक्तलक्षणरहितत्वं प्रमाणबाधितत्वामति प्रमाणबाधितत्वमिति यावत् । अयमर्थः । साधनवाक्येऽवयवापेक्षाया न्यूनताया अतिरिक्तायाश्च सभासदः पुरतोऽभिधानं यत्तत्सामान्येन दूषणम् । विशेषतस्तु पक्षदोषोद्भावनमसिद्धविरुद्धानकान्तिकः दोषोद्भावनं दृष्टान्तदोषोद्भावनं वा दूषणमित्येतदेवाऽह । पक्षदोषः प्रत्यक्षादिविरुद्धत्वमित्यादि । प्रकाशनमित्यादि । प्रकाशयतीति प्रकाशनम् । कोऽर्थः । प्रानिकप्रत्यायनमिति । प्रालिका प्रत्याभ्यान्तेऽवबोध्यन्ते प्रत्यक्षविरुद्धत्वादिकं बाह्युपन्यस्तमर्थ येन वचनजातेन प्रतिवाद्युपन्यस्तेन