________________
न्या. प्र. वृ. ३७]
पार्श्वदेवकृता तत्प्राश्निकप्रत्यायनम् । वचनजातमिदं षणमिति योगः । अथ किमिति प्रत्यक्षविरुद्धत्वादिकस्य पक्षहेत्वादिदोषस्योद्भावनं प्रानिकप्रत्यायनमेव दूषणमुच्यते । याक्तोद्भावनमात्रमेव किमिति न भवति दूषणमित्याह । न तद्भावनमात्रमेवेति । ननु वचनमात्रं नियुक्तिकं दूषणम् । किंत्वशुद्धसाधने वादिनाभिहिते प्रत्यक्षविरुद्धत्वादिकं साधनाभासदोषं युक्तिकलापेन कृत्वा प्राश्निकान्यदा प्रत्याययति तदेदमुद्भावनं दूषणं स्यादित्यर्थः । अथ प्राभिकप्रत्यायनं दूषणमित्यत्रापि प्राभिकप्रत्यायनवचनानां बहुत्वाइषणानामपि बहुत्वप्रसंगः । तत उभयत्रापि बहुवचनं वक्तुं युज्यते इत्याह । सामान्येत्यादि । दूषणजातेरनतिक्रमस्तस्माज्जातावेकवचनं संवृत्तमित्यर्थः । जातित्वादिति । जातिशब्दः सादृश्यवचनस्ततो दुषणसादृश्यात्सम्यक्साधनेऽविद्यमानासिद्धतादिदोषोद्भावनावचनानि दूषणाभामानि । यथा बौद्धेनोक्तम् यत्कृतकं तदनित्यं यथा घटस्तथा च शब्द इति । अत्र भट्टः प्राह । किं शब्दगतं कृतकत्वमुपन्यस्तं हेतुत्वेन ? उत घटगतमुभयगतं वा ? । यद्याद्यः पक्षस्तदयुक्तम् । शब्दगतस्यानित्यत्वेन व्याप्तेरनुपलम्भादसाधारणानैकान्तिको हेतुरिति । अथ घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः । अथोभयगतं तदसत् । मर्तामूर्तयोरेकधमतायोगान् । एतत्सर्वं दूषणाभासम् । कथमिति चेद्भूमादिष्वप्येवं वक्तुं शक्यत्वादेकोऽनुमानाभास एव स्यात् । तथा ह्यग्निरत्र धूमाद्यथा महानस इत्यत्र विकल्प्यते । किमोतिशब्दनिर्दिष्टपर्वतकप्रदेशादिगतमोऽग्निसाधनायोपादीयते उत महानसगतः । यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यसाधारणानकान्तिको हेतुः । अथ महानसगतस्तदा नासौं पर्वतैकदेशे वर्तते । न धन्यधर्मोऽन्यत्र वर्तत इति प्रसंगादित्यसिद्धो हेतुरित्येवं सम्यक्साधनेऽभूत. दोपोद्भावनं दूषणाभासमेवात एवाऽऽह । संपूर्णसाधने न्यूनत्ववचनमित्यादीति । किमित्येतानि दूषणाभासानि यावता सम्यग्दृषणान्यपि किमिति न भवन्तीत्याह । न ोभिरिति । अनेनैव हि यस्यादेभिरशुद्धपक्षादिवचनैः कृत्वा परपक्षः पराभ्युपगमः शुद्धपक्षादिस्वरूपो दुष्टः कतुं शक्यते वादिना निर्दोषत्वात्पराभ्युपगमस्य । उपरम्यते स्थीयते । तत्स्वरूपति । तस्य शास्त्रस्य स्वरूप स्वभावस्तत्स्वरूपं तस्य प्रतिपादनायेति । अन्वयव्यतिरेकलक्षणेति । साधर्म्यवैधर्म्यवच्छुद्धसाधनप्रयोगस्य लक्षणाभिधायकस्येत्यर्थः । इदानीं शास्त्रमुपसंहरन्नाशीर्वादमाह । न्यायेत्यादि । इह जगति न्यायप्रवेशकं व्याख्याय मया यत्पुण्यमाप्तं प्राप्तं तत्र पुणति सुरभीकरोति पुनाति वा पवित्रीकरोति आत्मानमिति पुण्यं शुभकर्म तेन यत्सुखं तस्य रसः प्रकर्षावस्था तं लभतां प्राप्नुयात् । भव्यो मुक्तिगमनयोग्यो जनो लोक इति । इति न्यायप्रवेशपञ्जिका समातेति ॥
न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थ दृष्वा स्पष्टा पार्श्वदेवगणिनाम्ना ॥