Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 114
________________ (७) पार्श्वदेवकृता- न्या. प्र. वृ०॥ मन्तरेण दृष्टान्ते साध्यहेत्वोः संभवमात्रे प्रदर्यमाने महानसे कदाचिदुभयाभावोऽपि दृश्यत इत्युभयविकलमहानसवत्साध्याभावमपि कदाचित्प्रतिपाद्यतेति । अन्ये त्विद दूषणं नानुमन्यन्ते । सर्वशास्त्रेष्वेवं प्रयोगदर्शनात् । न च प्रतिवादिवचः स्वातन्त्र्येण प्रमाणम् । किं तर्हि ! । प्रमाणान्तरानुगृहीतम् । ततश्च यदि प्रत्यक्षादिसिद्धाऽस्ति व्याप्तिस्तदाऽनित्यः शब्दः कृतकत्वाद्धटवदित्येवमपि प्रतीयते । अथ न प्रत्यक्षादिसिद्धा तदा वीप्सासिद्धग्रहणाभ्यामपि न प्रतीयते । सिद्धानुवादार्थ हि दृष्टान्तवचो न त्वसिद्धविधायकमिति । साधर्म्यप्रयोगे हि साधनधर्मों दर्शितः । एतदेवाह मागित्यादि । न्यायमुद्रेति न्यायमर्यादोल्लङ्घनमित्यर्थः । अनेन पदेनैतदाह । कृतकत्वं वस्तुनोनित्यत्वस्वभावमित्येवं येन नावगतं तं प्रति यदनित्यं तत्कृतकमित्येवं क्रियमाणेऽनित्यत्वानुवादिनः कृतकत्वादनित्यत्वप्रतीतिर्न स्यादित्येवं दोषः प्रकृतेऽ नुषज्यते । येन च कृतकत्वमनित्यत्वस्वभावमेवेति विज्ञातं तं प्रति यद्यपि प्रकृते न्यायमुद्राव्यतिक्रमदोषादन्यो दोषो नोत्पद्यते तथाऽपि तं प्रत्यप्यन्यत्र व्यभिचारः स्यात् । एतदेवाह अन्यत्रेत्यादि । विपरीतव्याप्तिकरणे हि विधुदादिना व्यभिचारः प्रसज्यते । कथमित्याह । अनित्यानामपत्यादि । एतदुक्तं भवति । इहान्वयप्रयोगहेतुसत्त्वे साध्यसत्त्वोपदर्शने क्रियमाणे प्रयत्ना. नन्तरीयकमनित्यमेव भवतीत्ययोगव्यवच्छेदतयाऽवधारणार्थे गम्यमाने सति व्यभिचारो न स्यात् । साध्यसत्त्वे च हेतुसत्त्वे उपदर्यमानेऽन्ययोगव्यवच्छेदतयाऽवधारणार्थो गम्यते । यथा यदनित्यं तत्प्रयत्नानन्तरीयकमेवेत्ययं चार्थों व्यभिचार्येव । यतोऽनित्यं प्रयत्नानन्तरीयक घटायप्रयत्नानन्तरीयकं विद्युदादि चेत्युभयस्वभावमस्य नित्यं भवति । तस्मादन्वय..योगे हेतुसत्त्वे साध्यसत्त्वं दर्शनीयमिति । तत्रेति पञ्चसु मध्ये । आक्षेपेत्यादि । बहुव्रीही निष्ठान्तं पूर्व निपततीत्यादिको । एवमिति । उभाववयवौ साध्यसाधनरूपौ यस्य साध्यसाधनसमुदायस्यासावुभयः । साधनं च उभयश्च तो साधनोभयौ ताकव्यावृत्तौ यकभ्यां तौ तथा तयोः । यद्वा साधनव्यावत्तश्चौभयाव्यावृत्तश्चेति समस्याव्यावृत्तशब्दस्य लोपः । साधनमव्यावृत्तमस्मादित्यादिना समासकरणं वक्तव्यमित्यर्थः । अथ यदि वैधर्म्यदृष्टान्तोऽगमकस्तर्हि साधर्म्यदृष्टान्तेन यदमतं तन्नित्यं दृष्टं यथाकाशमित्येवं साध्य. सिद्धिः क्रियतामित्याह वैधयेत्यादि । अथात्राभासता कथम् । यावता वैधHदृष्टान्तोऽपि साक्षात्किमिति नेष्यत इत्याह अयं चेति । उभौ च तौ धर्मों चोभयधर्मों । साध्यं च साधनं च साध्यसाधने ते च ते उभयधर्मों च ताभ्यां विकलः । यत उक्तमित्यतोऽग्रे यत्र दृष्टान्त इति शेषः । इत्यादीत्यतोऽग्रे स वैधर्म्यदृष्टान्त इति शेषः । अथायमपि साध्यसाधनधविकलः स्यादित्याह न चायमिति । आहेत्यादि किमर्थमित्यतोऽये आदावुक्त इति शेषः । तस्येति साधर्म्यप्रयोगस्य । हेतुसत्त्वे साध्यसत्त्वमन्वयस्तत्प्रधानात् अन्वयस्य चेति । साधनधर्मः पुरःसरो यत्र साध्यधर्मोचारणे तच तत्साध्यधर्मस्योच्चारणं च तदेव रूपं यस्यान्वयस्य स तथा तस्य भावस्तत्त्वं तस्मात् । किमुक्तं भवति ।। साध्येन व्याप्तो हेतुदर्शनीयः साधर्म्यप्रयोगे अतो यः प्रागुञ्चायते

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228