Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 120
________________ पार्श्वदेवकृता-- [न्या. प्र. वृ० ३६ लोकरूढं न मनोविज्ञानादि । अतस्तदेवाश्रित्याव्ययीभावः प्रदर्शितः । तर्हि मनोविज्ञानादिः स्वरूपं प्रदर्श्यताम् । नैवमन्यतोऽक्सेयमत एवाह कृतं प्रसङ्गेनेत्यादि॥अधुनानुमानावसरः। तत्र यद्यपि द्विविधमनुमानं स्वार्थपरार्थभेदेन तथापि साधनाभिधानेन परार्थानुमानं प्रागुक्तम् । इदानी स्वार्थानुमानमुच्यते । तत्र शब्दात्मकत्वात्परप्रतिपत्तिनिबन्धनं परार्थमुच्यते । स्वप्रतिपत्ति. निबन्धनं तु ज्ञानात्मकं स्वार्थमिति । ननु तर्हि यः शब्दोच्चारणं विनार्थ न प्रतिपद्यते तस्य शब्दात्मकमप्यनुमानं स्वार्थ प्राप्नोत्यात्मप्रतीत्यर्थ शब्दस्योच्चारणादुच्यते । आत्मप्रतिपत्तये सर्वदेव यदुपयुज्यते तत्स्वार्थमुच्यते । शब्दात्मकं त्वात्मप्रतीतये न सर्वदोपयुज्यते किंतु परार्थमपि तदुच्चार्यते । अतः परार्थ शब्दात्मकम् । स्वार्थ तु ज्ञानात्मकामति । अनुमितिरनुमानमित्यनेनाप्यनवबोधाख्यं फलमनुमानशब्दवाच्यमुक्तं तत्किमित्याह । तञ्च लिङ्गादर्थदर्शनमिति । तत्र लिङ्गचते गम्यतेऽनेनार्थ इति लिङ्गम् । लीनमर्थ गमयतीति वा लिङ्गम् । पृषोदरादित्वान्निपात्यते लिङ्गशब्दः । तस्मादर्थ्यत इत्यर्थो वह्नयादिस्तस्मिन् ।दृष्टिदर्शनं ज्ञानमर्थदर्शनम् । किंलक्षणं पुनर्लिङ्गमित्याह । लिङ्ग पुनस्त्रिरूपमिति । रूपशब्दो लक्षणवाची । ततस्त्रिरूपं त्रिल. क्षणमित्यर्थः । तदयं भावार्थः । साध्याविनामाक्निः पक्षधर्मत्वादित्रिरूपयुक्तात्कार्यस्वभावाख्यलिङ्गाघदर्थे सामान्ये सजातीयानुगते विजातीयव्यावृत्ते वह्नयादौ ज्ञानमग्निरत्रेत्यादिरूपमुत्पद्यते तज्ज्ञानमनुमानज्ञानम् । तत्रापि प्रथमं लिङ्गज्ञानं भवति तदुत्तरं च लिहाल्लिविज्ञानं स्यादिति विज्ञेयम् । तत्र सामान्येन साध्याविनाभावित्वस्मरणज्ञानं यत्तलिज्ञानम् यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणम् । विशिष्टदेशादिसंबन्धेन यदुदेति यथाऽत्रायं धमो वहिन इति वह्निरत्रास्तीति वह्निविशेषज्ञानं तल्लिङ्गिज्ञानम् । तथा स्वभावहेतावपि प्रथमं साध्यानन्तरीयकं साधनं स्मर्तव्यम् । यथा कृतकत्वं नामानित्यत्वस्वमिति तदेतत्सामान्यस्मरणं लिङ्कज्ञानं सामान्येन स्मृतमथै पुनर्विशेषे यदा योजयति यथेदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति तदा विशिष्टस्य शब्दगतकृतकत्वस्यानित्यत्वस्वभावस्मरणमनुमानज्ञानम् । नन्वनुमानलक्षणमेकेनैवोदाहरणेन चरितार्थ स्यात्किमित्युदाहरणद्वयं दत्तमित्याह । उदाहरणेत्यादि । वस्तुन. सत्ताया विधेरिति यावत् । साधनं सिद्धिनिश्चयो भवति यकाभ्यां तो वस्तुसाधनौ वस्तुगमको कार्यस्वभावाख्यौ तौ तथा । तौ च तो हेतु च । ततो वस्तुसाधनौ च तौ तौ च तयोर्द्वयं तस्य ख्यापनार्थ द्वावेव वस्तुसाधनौ हेत् अन्यस्त्वनुपालम्भाख्यो यो ग्रन्थान्तरेषतः स प्रतिषेधहेतुरेवेति कथनार्थम् । ननु सोपीह किमिति नोक्तो यावद्धेतुद्वयस्यैवह चर्चा कृता। सत्यम् । एवं मन्यते । स्वभावहेतोरनुपलब्धे पृथक्करणं कृतम् । ग्रन्थान्तरेष्वपि यतत्प्रतिपत्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ स्वभावप्रतिपत्यध्यवसायीति । परमार्थतस्तु प्रतिषेध्यस्याभावव्यवहारयोग्यता वस्तुभूतवै प्रदेशस्य साध्या । यतः केवलं भूतलं. तज्ज्ञानं च घटाभावस्य स्वरूपं नापरो भावः कश्चिदित्यतः

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228