Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 105
________________ न्या. प्र. पू० २८ ] न्यायप्रवेशवृत्तिपत्रिका अनेकद्रव्या तु द्वित्वादिका परार्धान्ता । एतस्याश्च खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेम्यो निष्पत्तिरिति । परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम् अणुमहद्दीर्घद्रस्वभेदात् । तत्राणु द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुमनस्सु पारिमाण्डल्यम् । अनित्यं व्यणुक एव । तथा निरुपचरितं ह्रस्वत्वमपि । तथा महदपि द्विविधं नित्यानित्यभेदात् । तत्र नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यत्वं च व्यणुकादावेव । तथाऽभाक्तं दीर्घमपि । तथा कुवल मलकबिल्वादिषु महत्परिमाणम् । तथा तत्प्रकर्ष भावाभावमपेक्ष्य तेष्वेव भाक्तमत्वमपि । तथाहि कुवलापेक्षयाऽमलकं महत्तदपि च विल्वापेक्षयाऽण्वित्येवमन्यत्रापि । तथेक्षुवंशादिष्वसा दीर्घत्वम् । तेष्वेतत्प्रकर्ष भाषाभावमपेक्ष्य भाक्तं हस्वत्वमपि । तत्र महत्सु दीर्घमानीयतां दीर्घे च महदानीयतामिति व्यवहारदर्शनाद्दीर्घत्वमहत्वयोः परस्परतो विशेषो ज्ञेयः । अणुत्वहस्वत्वयोश्चाभाक्तयोः परस्परतो विशेषो योगिनामेव प्रत्यक्ष इति । पृथग्भावः पृथक्त्वम् । अयमस्मात्पृथगिति पृथग्व्यवहारकारणम् । अप्राप्तयोः प्राप्तिः संयोगः । स च त्रिविधः अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य यथा स्थाणोः श्येनेन विभूनां च मूतैः । उभयकर्म जो विरुद्ध दिक्क्रिययोः सन्निपातो यथा मल्लयोमेषयोर्वा । विरुद्धदिशि क्रिये ययोस्ती तयोरिति । संयोगजश्च संयोगो यथा तन्तुवीरणयोः संयोगे तदारब्धपटे वा वीरणसंयोग इति । कारणसंयोगिना हि कार्यमवश्यं संयुज्यत इति न्यायात् । प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । तत्रान्यतरकर्म जो भय कर्मजौ संयोगवत् । विभागजश्व विभागो यथा वंशदलयोर्विभागे तदवयवस्याकाशेन च विभाग इति । परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तं तद्धि दिक्कृतं कालकृतं च । तत्रैकस्यामेव दिशि व्यवस्थितयोर्वर्तमान कालवर्तिनोरेव पिण्डयोः संयुक्तसंयोगमहल्पभावे सत्येकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परत्वाधार पर दिक्प्रदेश योगाद्यः परोयमिति प्रत्ययो जायते स दिकृतपरत्वनिबन्धनः । अत्र च यस्य द्रष्टुरपेक्षया बहवः संयुक्तसंयोगाः स परत्वस्याधारो विप्रकृष्टावधिक उच्यते । यस्य चास्याः संयुक्तसंयोगाः सोऽपरस्वाधारः सन्निकृष्टाविधिक इति । यश्च विप्रकृष्टमवधिं कृत्वैतदस्मिन्नपरदिक् प्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स दिकृतापरत्वनिबन्धनः । कालकृतं च यथा । वर्तमान कालयोरनियतदिग्देशसंयुक्तयोयुवस्थविरयो रूढश्मश्रुकार्कश्यवली पलितादिसान्निध्ये सत्येकस्य द्रष्टुर्युवानमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परेण कालप्रदेशेन योगाद्यः परोऽयमिति स्थविरे प्रत्ययो जायते स कालकृत परत्वनिबन्धनः । यस्य स्थविरमवधिं कृत्वा यून्यपरकालप्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स कालकृतापरत्वहेतुकः । बुद्धिरुपलब्धिः प्रत्ययो ज्ञानं पर्यायः । सा चानेकप्रकारा अर्थानन्त्यात् । अनेकविधेष्वपि समासतो द्वैविध्यमविद्याविद्याभावात् । तत्राविद्या संशयाविपर्ययानध्यवसायस्वप्नभेदाचतुर्विधा । तत्र स्थाणुर्वा पुरुषो वेति मन्दमन्दप्रकाशे देशे ज्ञानं संशयः । गन्येवाश्व इति ज्ञानं विपर्ययः । तत्तद्वस्तुमात्रं पश्यतोऽपि तदुपदेशाभावाद्विशेषसंज्ञाप्रतिपत्तिर्न भवति यथेदममुकमिति सोऽनध्यवसायः । उपरतेन्द्रियग्रामस्य प्रतिनियतात्मप्रदेशस्थितमनस्कस्येन्द्रियद्वारे ( ६३ )

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228