Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 159
________________ ११० प्रमोदाविवृतिसंवलितं - - vvvvvvvvvvwwwmom अथासतोऽभावाश्रयत्वमभावप्रतियोगित्वं च भावधर्मरूपं न सम्भवतीति न तनिषेधो युक्तः। शशशृङ्गमस्ति न वेलि पृच्छतो धर्मिवचनव्याघातेनैव निग्रहात् तत्रान्यतराभिधानेनोभयनिषेधेन तूष्णीम्भावेन वा परा. बाधितार्थस्थले भ्रमाऽनभ्युपगन्ता प्रभाकरः पदार्थद्वयसंसर्गबोधस्य प्रमाऽऽत्मकस्यासम्भवात् तयोरसंसर्गस्याग्रह पवेत्यभ्युपगन्ताऽपि अबाधिताथस्थले पदार्थयोरत्यन्तमसन योऽसंसर्गस्तस्याग्रह पदार्थद्वयसंसर्गबोधलमनुगतं वदतीति तदर्थः। ननु "व्यावाभाववत्तैव भाविकी हि विशेष्यता। अभावविरहात्मत्वं वस्तुनः प्रतियोगिता" ॥२॥ इति वचनादत्यन्ताऽसतः खरविषाणादेर्भावधर्मस्य प्रतियोगित्वाश्रयत्वादेन सम्भव इत्यभावप्रतियोगित्वलक्षणमसत्त्वं न सम्भवतीति न यथाशुतार्थसम्भव इत्याशङ्कते-अथेति । असत्त्वमभावात्मकधर्मविशेष एवेत्यभिप्रेत्योक्तम्-अभावाश्रयत्वमिति । किञ्चिन्निष्ठात्यन्ताऽभावप्रतियोगित्वमसत्त्वमित्यभिप्रेत्योक्तम्-अभावप्रतियोगित्वमिति । भावधर्मरूपमिति-भाव एव वर्तते, खरशृङ्गादिस्तु तुच्छत्वादभावरूप एवेति न तत्र तस्य सम्भव इत्यभिसन्धिः । तन्निषेधः खरशङ्गमसदित्येवंरूपेण खरशुङ्गनिषेधः । ननु यदि खरशङ्गादेरसतो निषधो न सम्भवति तर्हि तस्य खरबाङ्गमस्तीत्येवंरूपेण विधानमपि न सम्भवति विधेरपि भावधर्मवाद , एवं च खरशङ्गमस्ति नवेति पृष्टो यद्यस्तीति ब्रूयानास्तीति वा वयादुभयथाऽप्ययुक्तभाषित्वान्निगृहीतः स्यात, यदि न किञ्चिद्वयात् तदापि प्रश्नोत्तराऽदानादवचनेनैव निगृहीतः स्यादित्यत आह-शशशृङ्गमस्तीति-विधौ निषेधे च शशशृङ्गमित्येव धर्मिवचनम् , तच्चार्थशून्यमित्यतः कोऽपि धर्मी नोपात्त इति कस्यास्तित्वं नास्तित्वं वा पृच्छाविषयः स्यादिति धभिवचनव्याघातात् प्रष्टैव निगृहीत इति निगृहीतस्य कथायां पुनरुत्थानाऽसम्भवात् तत्र प्रतिवादी किमयुत्तरं कथयतु, तूष्णीं वा भवतु नोभयथाऽपि तस्य पराजयाभावादिति समुदितार्थः। तत्र धर्मिवचनव्याघातेन निगृहीते प्रष्टरि। अन्यतराभिधानेन अस्तित्व-नास्तित्वयो

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242