Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 198
________________ १४९ नयरहस्यप्रकरणम् । इति वाच्यम्, आद्यकृतिप्रागभावचरमकृतिध्वंसयोर्भविष्यदतीतप्रत्ययार्थत्वादिति चेत्, न जानातीत्यादौ धात्वर्थे कालान्वयदर्शनात् । अस्तु वा, तथापि कृत्प्रत्ययार्थोत्पत्तेः प्रातिपदिकार्थे घटे कथमन्वयो योग्यत्वात् । परम्परासम्बन्धेन तत्र तदन्वयोपपत्तिरिति चेत्, नविद्यमानघटे न नष्टो घट इति प्रयोगानापत्तेः, वृत्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वात् । उत्पतेर्धात्वर्थे तस्य च प्रातिपदिकार्थेऽन्वयान्न दोष इति चेत्, आद्यकृतीति । जानातीत्यादौ ज्ञान एव वर्तमानकालवृत्तित्वस्यान्वयोपगमेन प्रत्ययार्थ एव प्रत्ययार्थवर्तमानकालादेरन्वय इति नियमासम्भवादिति समाधत्ते नेति । धात्वर्थे कालान्वयदर्शनाद् धात्वर्थे ज्ञाने प्रत्ययार्थवर्तमानकालस्यान्वयदर्शनात् । भवतु ज्ञाधातुव्यतिरिक्तस्थले सर्वत्र प्रत्ययार्थ एव प्रत्ययार्थकालादेरन्वय इत्येवमुपगमेऽपि कृत्प्रत्ययार्थनाशोत्पत्तेर्नाश एव सम्भवेन घंटे तदन्वयासम्भवान्नष्टो घटो नश्यन् घट इति प्रयोगानुपपत्तिरित्याह- अस्तु वेति- प्रत्ययार्थे प्रत्ययार्थ कालादेरन्योऽस्तु वेत्यर्थः । तथापि उक्तान्वयसम्भवेऽपि नाशोत्पत्तेरपि स्वाश्रयनाशप्रतियोगित्वलक्षणपरम्परासम्बन्धेन घटेSrasो भविष्यतीति शङ्कते - परम्परासम्बन्धेनेति । तत्र घटे । तदन्वयोपपत्तिः नाशोत्पत्त्यन्वयोपपत्तिः । नाशोत्पत्तेः स्वाश्रयनाशप्रतियोगित्वसम्बन्धो वृत्त्यनियामक एवेति तस्य प्रतियोगितानवच्छेदकत्वेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकनाशोत्पत्त्यभावस्याप्रसिद्ध्या बोधयितुमशक्यत्वेन विद्यमानघटे न नशे घट इति प्रयोगानुपपत्तिरिति समाधत्ते नेति । नष्टो घट इत्यत्रातीतत्वस्य प्रत्ययार्थस्य प्रत्ययार्थोत्पत्तावन्वयः, तस्याश्च विशेषणविधया धात्वर्थे नाशेऽन्वयः, तस्य च प्रतियोगितासम्बन्धेन घटेऽन्वय इत्यतीतोत्पत्तिमन्नाशप्रतियोगी घट इति बोधसम्भव इत्याशङ्कते - उत्पत्तेरिति । तस्य च धात्वर्थस्य

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242