Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१५०
प्रमोदाविवृतिसंवलित
w
न-नामार्थयोः साक्षाद्भेदसम्बन्धेनान्वयायोगात्, अन्यथा तण्डुलं पचतीत्यत्रापि कर्मत्वसंसर्गेण प्रातिपदिकार्थस्य धात्वर्थेऽन्वयप्रसङ्गात् । अथ भेदेन निपातान्यनामार्थप्रकारकबोधेसमान विशेष्यत्वप्रत्यासत्त्या निपात-प्रत्ययान्यतरजन्योपस्थिते हेतुत्वात् नामार्थप्रकारकधात्वर्थविशेध्यकबोधासम्भवेऽपि धात्वर्थप्रकारकनामार्थविशेष्यकपुनः। प्रतियोगित्वं स्वरूपसम्बन्धविशेष एव, तस्य च वृत्तिनियामकत्वमपीति भवति विद्यमानघटे न नष्टो घट इति प्रयोगस्याप्युपपत्तिरित्यभिमानः। यथा च नामार्थयोः साक्षाद भेदसम्बन्धेन नान्वयस्तथा नामार्थ धात्वर्थयोरपीति धात्वर्थस्य नाशस्य प्रतियोगित्वाख्यभेदसम्बन्धेन नामाथै घटे नान्वयसम्भव इति समाधत्ते-नेति । 'नामार्थयोः' इति स्थाने 'नामार्थ-धात्वर्थयोः' इति पाठो युक्तः। अन्यथा नामार्थ-धात्वर्थयोरपि साक्षाद् भेदसम्बन्धेनान्वयाभ्युपगमे । कर्मत्वसंसर्गेणेति-विभक्त्यर्थस्य कर्मत्वस्य संसर्गतया भानमाश्रित्य। प्रातिपदिकार्थस्य तण्डुलपदरूपप्रातिपदिकार्थस्य तण्डुलस्य। धात्वर्थे पच्धात्वर्थे पाके। नष्टो घट इत्यत्र धात्वर्थस्य नाशस्य प्रकारविधयैव नामार्थे घटेऽन्वय उररीक्रियते, तदुपपत्तये प्रकारान्तरमाशङ्कते-अथेति । समानेति-विशेष्यतासम्वन्धेन भेदसम्बन्धावच्छिन्ननामार्थनिष्टप्रकारताकवोधं प्रति विशेप्यतासम्बन्धेन निपातप्रत्ययान्यतरजन्योपस्थितिः कारणमिति कर्मत्वसम्बन्धावच्छिन्नतण्डुलनिष्टप्रकारताकबोधस्य विशेष्यतासम्बन्धेन पाके उत्पत्तिस्तदा स्याद् यदि तत्र निपातप्रत्ययजन्योपस्थितिविशेष्यतासम्बन्धेन भवेत् . तभावच्च नामार्थतण्डुलप्रकारकधात्वर्थपाकविशेष्यकबोधस्यासम्भवेऽपि प्रतियोगित्वसम्बन्धेन नश्धात्वर्थनाशप्रकारकघटविशेष्यकबोधस्योक्तकार्यकारणभावानाक्रान्ततयोत्पत्तो बाधकाभाव इत्यर्थः । प्रति

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242