Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 201
________________ २५२ प्रमोदाविबृतिसंवलितं आख्यातार्थोऽयोग्यत्वान्न भासत इति चिन्तामणिकृतोक्तं युक्तम् , अन्यथा निरूपितत्वसंसर्गेण ज्ञानप्रकारकाश्रयत्वविशेष्यकावान्तरशाब्दबोधत देतुत्वादिकल्पने गौरवात्। न च सामान्यतो हेतुत्वं क्लतमेवेति क्व गौरवमिति बाच्यम्, तथापि तत्तदाकाङ्काज्ञानादिहेतुनाकल्पने गौरवादिति, मैवम्-तथा सति जानातीत्यत्राख्यातार्थसङ्ख्यानन्वयप्रसङ्गात्, भावनान्वयिन्येवाख्यातार्थसंख्यान्वयात्। नामार्थविशेष्यकशाब्दबोधस्याभ्युपगमादेवेत्यर्थः। अन्यथा जानातीत्यादौ धात्वर्थप्रकारकनामार्थविशेष्यकशाब्दबोधस्यानभ्युपगमे। निरूपितत्वेतितत्राख्यातस्याश्रयत्वे निरूढलक्षणामभ्युपगम्य तत्र धात्वर्थस्य ज्ञानस्य निरूपितत्वसम्बन्धेनान्वयः, तस्य च स्वरूपसम्बन्धेन नामार्थे चैत्रादा. वन्वय इति निरूपितसम्बन्धेन ज्ञानप्रकारकाश्रयत्वविशेष्यकशाब्दबोधे जानातीत्यानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानस्य कारणत्वस्य स्वीकर्तव्यत्वेन गौरवादित्यर्थः। 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः। अन्यत्र धात्वर्थप्रकारकप्रत्ययार्थविशेष्यकशाब्दयोधस्योत्पत्त्या धातुप्रत्ययसमभिव्याहारस्य सामान्यतः कारणत्वं तृप्तमेवेति न गौरवमित्यर्थः । निषेधे हेतुमाह-तथाऽपीति-सामान्यतो हेतुत्वस्य क्लुप्तत्वेऽपीत्यर्थः । उक्ताशङ्कायां समाधानमाह-मैवमिति । तथा सति धात्वर्थस्यैव ज्ञानवतो. ऽभेदेन प्रातिपदिकार्थेऽन्वयाऽभ्युपगमे। आख्याताति-एकवचनलट्प्रत्ययार्थस्यैकत्वस्य चैत्रादिप्रातिपदिकार्थेऽनन्वयप्रसङ्गात् । कुतोऽन. न्वयप्रसङ्ग इत्यपेक्षायामाह-भावनेति-आख्यातार्थस्य कृयादेयंत्रान्वयस्तत्रैवाख्यातार्थसङ्ख्याया अन्वयात् , प्रकृते तु सङ्ख्यातिरिक्तस्याख्यातार्थकृत्यादेरनभ्युपगमेन तदन्वयाभावतः सङ्कयान्वयासम्भवादित्यर्थः। प्रथमान्तपदोपस्थाप्यत्वं यत्र तत्राख्यातार्थसङ्ख्यान्वय इत्येव स्वीक्रियत इति भावनान्वयाभावेऽप्याख्यातार्थसङ्ख्यान्वयः

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242