Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१७६
प्रमोदाविवृतिसंवलितं
बहिर्भूतो नास्त्येव कश्चिन्नय इति तदाकृतपरत्वमगि न सम्भवतीत्यत उक्तव्याख्यानमेव मम्यक्त्वमञ्चतीति बोध्यम् ।। १०६ पृष्ठ २३ पङ्क्तौ ' इत्यन्यत्र विस्तरः' इत्यनन्तरम्
यथा च भावानां वर्तमानक्षणसम्बन्धो न तथाऽतीतत्वा-ना. गतत्वसम्बन्धः, अतीतत्वस्यानागतत्वेन सह विरोधे तयोरेकत्र भावे समावेशासम्भवात् . अतीतानागताकारज्ञानलक्षणविकल्पतम्तु तयोर विरोधो नाशङ्कनीयः, येनातीतत्वानागतत्वे अपि भावे स्याताम, यतः प्रत्यक्षमेव वस्तुसाधकम् , तञ्च वर्तमानाकारमेव नातीतानागताकारम्, विकल्पस्त्वतीतानागताकारोऽपीति न वन्तुसिद्धिनिवन्धनमिति न ततोऽतीतत्वा-ऽनागतत्वयोः सिद्धिः। तत्रेयमाशङ्का-पूर्वपूर्वज्ञानाद उत्तरोत्तरज्ञानप्रभव इति यत् पूर्वज्ञानं तत् समनन्तरप्रत्ययशब्दे. नोच्यते, तथा च यथा प्रत्यक्षज्ञानं समनन्तरप्रत्ययप्रभवं तथा विक ल्पोऽपि समनन्तरप्रत्ययप्रभव इति प्रत्यक्षस्य वस्त्वनुभवरूपत्वाद् वस्तुसाधकत्वे विकल्पस्यापि वस्त्वनुभवरूपत्वाद् वस्तुसाध कवं स्यादिति प्रत्यक्षस्येव तस्यापि प्रामाण्यं स्यादिति प्रत्यक्षाविष. यत्वेऽपि विकल्पविषयत्वादतीतत्वाऽनागतले स्थातामेव भावगते। यदि च विकल्पस्य प्रामाण्यं नानुमन्यते तहि विकल्पद्वारा प्रत्यक्षस्यापि प्रामाण्यं न स्यात् , अभ्युपगम्यते च क्षणिकवादिना प्रत्यक्षस्य विकल्पद्वारा प्रामाण्यम् , तत एव च नीलाविवश्नुस्वलक्षणावगाहि प्रत्यक्षं यथा वस्तुनि नीलादिरूपन्नमवगाहते तथा क्षणिकत्व. मप्यवगाहते, परं नीलादिविकल्पमुत्पादयतीति नीलायंशे तस्य प्रामाण्यम् , क्षणिकत्वादिविकल्पं च नोत्पादयतीति न तस्य क्षणिकत्वांशे प्रामाण्यम् , अत एव च ‘यत सत् तदक्षणिकम्' इत्या. धनुमानापेक्षा । “यत्रैव." इत्यादि वचनं लोक्तार्थस्यैवावेदकम् , यत्रैव-यस्मिन्नेव विषये नीलादौ,एनाम्-विकल्पारिका बद्धि, जनयेत् तत्रैव-तस्मिन्नेव नीलादी, अस्य-निर्विकल्पकप्रत्यक्षस्य, प्रमाणता

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242