Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 223
________________ - १७४ प्रमोदाविवृतिसंवलितं बाह्यमाश्रित्य लिङ्गभेद-पर्यायभेद-क्रियामेदसमाश्रयेण शब्दार्थमेदाभ्युपगमव्यवस्था, पर्यन्ते तु साकार-निराकारज्ञान-शून्यवादाभ्युपमन्तृत्वमेव क्रमेण नेपाम्, शून्यवादाभ्युपगन्ता तु व्यवहृत्युपपादनाय ज्यवहारदशायां ज्ञानाभ्युपगन्तव, विवेकस्तु तदानी लिङ्गभेदज्ञानपर्यायभेदज्ञान-क्रियाभेदज्ञानकृततत्तदर्थाकारज्ञानविलक्षणज्ञानस्वरूपभेदाभ्युपगमनिवन्धनः, इत्थं च प्रस्थकोपयोग एव प्रस्थक इति तेषां मते ज्ञानात्मत्वं प्रस्थकस्य, नैगम-सङ्ग्रह-व्यवहारर्जुमूत्रनयानां मते. ऽज्ञानात्मकत्वं प्रस्थकस्य, तत्र पराशङ्कामत्थाप्याऽपहस्तयति-न चेति -अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः, ज्ञानात्मकत्वं प्रस्थकस्य साम्प्रतादिनयत्रयस्वरूपशब्दनयविषयः, अज्ञानात्मकत्वं नैगमादिनयचतुष्टयस्वरूपार्थनयनिश्यस्तदुभयात्मको यः शब्दार्थो भयन यविषयस्तस्यैकत्र वस्तुनि समावेशविरोधाद् ज्ञानात्मकं चेन्नाज्ञानात्मकम्, अज्ञानात्मकं चेन्न ज्ञानात्मक ज्ञानात्मकाऽज्ञानात्मकयोस्तादात्म्यासम्भवात्, तथा च वस्तु ज्ञानात्मका ज्ञानात्मकयोरन्यतरदेव भवितुमर्हति, तच्च परस्परविरुद्धपथमाश्रिताभ्यामर्थनय शब्दनयाभ्यां निर्णतुमशक्यमिति तथाभूतवस्त्वंशनिर्णयाऽनात्मकत्वात् प्रत्येकमर्थनयस्य शब्दनयस्य चाऽनयत्वं स्यादिनि न चाशङ्कनीयमित्यर्थः । यद्यपि विनिगमनाविरहादुभयोर्मध्ये नेकस्यैव निर्णय इत्येकान्तेन न सम्भवति नयविरुद्धयोरुभयोः सर्वथा तादात्म्यसम्भवस्तथापि किञ्चिदपेक्षया यज्ञानात्मकत्वं तच्छन्दनयोऽभ्युपगच्छति, यच्च किश्चिदपेक्षयाऽज्ञानात्मकत्वं तदर्थनय उररीकरोति, अथनये ज्ञानस्य विषये विषयत्वमेव सम्बन्ध इति विषयत्वापेक्षयाऽज्ञानात्मकत्वम्, शब्दनये ज्ञानस्य तादात्म्यमेव सम्बन्ध इति तादात्म्यापेक्षया ज्ञानात्मकत्वमित्येवं नयद्वयविषयसमावेशस्यैकत्र घटमानत्वात् प्रत्येकं स्वस्वविषयनिर्णायकस्य शब्दनयस्याऽर्थनयस्य च वस्त्वंशावगाहिनिर्णयात्मकत्वेन नयत्वमुपपद्यत इति निषेधहेतुमुपदर्शयति-तादात्म्येनेति-सर्वथा तादात्म्येनेत्यर्थः । तदुभयेति-शानात्मकत्वाऽज्ञानात्मकत्वोभयेत्यर्थः। ननु शान-विषययो.

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242