Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 224
________________ नयरहस्यप्रकरणम् । १७५ विषयत्वमेव सम्वन्धतया भासत इत्यर्थनयस्य विषयत्वापेक्षया प्रस्थकस्याऽज्ञानात्मकत्वमननं युज्यते, तादात्म्यं तु तयोः संसर्गतया भासत एव नेति तदपेक्षया प्रस्थकस्य ज्ञानात्मकत्वमननं कथं सङ्गतमित्यत आह - विषयत्वमपीति । नयान्तराकृतं नयान्तरस्यार्थनयाद् भिन्नस्य शब्दनयस्याभिप्रायः । ननु किंवृत्तचिद्विधिः स्याद्वाद पत्रेति कथञ्चित्तादात्म्यमिति स्याद्वादप्रमाणसम्मतम्, कथं तदुपगमो नयान्तरस्येति चेत्, सत्यम् किन्तु प्रमाणे कथञ्चिद्वादे उभयोरपि प्राधान्यम, अत्र त्वभेरस्यैव प्राधान्यं वस्तुभूतत्वं च तस्य, भेदस्य गौणत्वमविद्याकल्पितत्वमेव तस्य न वस्तुभूतत्वम् स्याद्वादे तु terstataयोरपि वस्तुभूतत्वमिति विशेष इति बोध्यम् । यदाश्रयणेन विषयत्वं कथचिन्तादात्म्यमिति शब्दनयाकृताश्रयणेन । अर्थाभिधानप्रत्यवानामिति- अर्थोऽपि ज्ञानविषयत्वाज्ज्ञानात्मा, शब्दोऽपि तत्त्वात् तथा, प्रत्ययस्तु स्वरूपत पत्र तथेति, अर्थस्य घटादेर्यद् जलाहरणादिकं कार्य तदप्येतन्नये ज्ञानस्वरूपमेव, शब्दस्य कार्यमर्थप्रत्यायनं ज्ञानमेव, ज्ञानस्य कार्यमर्थावभासनं स्वस्वरूपावभासनं च ज्ञानमेवेति तत्तत्कार्याणां ज्ञानव्यक्तीनां भेदेऽपि ज्ञानत्वेन सादृश्यमस्तीति तुल्यार्थत्वं सदृशप्रयोजनकत्वलक्षणमुपपद्यत इति । पूर्वव्याख्यानार्थावगमोऽतिसूक्ष्मेक्षिकानुवद्धमानसानामेव, इदं तु व्याख्यानं स्थूलमतीनामपि सुखावबोधम् । किञ्च पूर्वव्याख्यानं शब्दनय एव 'ब'ह्यप्रस्थकस्यापि' इत्युक्त्याऽज्ञानात्मकत्वस्य 'उपयोगानतिरेकाश्रयणाद्' इत्याशुक्त्या ज्ञानात्मकत्वस्य च प्राप्तौ तत्सङ्गमनार्थ प्रवृत्तम्, तत्र 'नयान्तराकूतम्' इत्यनेन शब्दनयाकृतस्य ग्रहणं न सम्भवति प्रक्रतनयभिन्नस्यैव नयान्तरशब्दप्रतिपाद्यत्वेन शब्दनयस्यैव च प्रकृतनयत्वेन तद्भिन्नत्वस्य शब्दनयेऽभावात्, अर्थनयस्य नयान्तरत्वेऽपि तन्मते विषयत्वस्य कथञ्चित्तादात्म्याभावेन तत्तात्पर्यस्य ग्रहणासम्भवात् शब्दनयार्थनयातिरिक्तस्तु परिगणितसप्तनय

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242