Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
प्रमोदावृतिसंवलितं
सम्राट् श्रीजिनशासनस्य वसतिः प्रौढप्रतापश्रियो राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः ॥ १२ ॥
वसन्ततिलकावृत्ते] ईडे सुदर्शनधरं पुरुषोत्तमं तं मैत्रीयुतं समुदयश्रियमादधानम् । सन्नन्दनं सुमनसामनुरागच विज्ञानतामरसतामरसाकरं च ॥ १३॥ भव्यालिपङ्कविकलं जडतातिगं च नित्यं पुनानमखिलं किल साधुपद्मम्। सन्दर्शिताऽमृतपथं वरदेशनातो लावण्यमन्दिरमुदारमनोऽभिरामम्
॥१४॥ [ उपजातिवृत्ते] नम्यं नरेन्द्रैः सुजयन्तमार्यदक्षं सुशीलोच्चविशुद्धचित्तम् ।। कल्याणभृत्केवलनामधेयजिनप्रभोल्लासितभावविज्ञम् ॥ १५ ॥ सञ्चन्दनं सजनतापहारं प्रौढप्रभावं विबुधार्चितं च । सन्मङ्गलं सच्चरणादिकान्तं मतीशमान्यं गुणराजिरम्यम् ॥ १६ ।। तस्यानल्पगुणस्य नेमिसुगुरोः सत्पट्टपद्माकरे ___ लावण्येन कजेन रैवतगिरौ नत्वा शिवानन्दनम् । आशाकाशदृशा मितेऽर्कसमये सञ्चैत्रराकादिने
ग्रन्थे श्रीनयगे रहस्यविदिते टीका प्रमोदा कृता ॥ १७ ॥ चन्द्रार्कमहिमा यावद् भाति कान्तिकृतो भुवि । तावद् विवेकशालिनां ग्रन्थोऽयं हृदि नन्दतु ॥ १८ ॥
१०
०
॥ इति प्रमोदाविवृतिः संपूर्णा ॥
टीकाग्रम्-प्रायस्त्रीणि सहस्राणि ॥ .

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242