Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम् ।
भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्करं
सान्वर्थे च महातपा इति पदं यस्मै ददे सम्मदात् । पुण्यात्मा विदधे ततः स च जगञ्चन्द्राभिधः सूरिराट्
षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥ ६ ॥ गच्छेऽमिश्च परम्परागत महोवैशद्यलीलालये
श्रद्धाचारचितां कुलालयमये राद्धान्तमार्गाध्वगे । श्रीहीरेण जिनेन्द्रशासन शिरोहीरेण धीरेण च
१८१
भूपालाकबरप्रबोधनकृता पुण्यात्मना सूरिणा ॥ ७ ॥ मोहेलापतिपाटने पटुतमे सद्धर्मसेनाकरे
श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽर्थिना सूरिणा । श्रीदेवेन च सूरिणा विबुधतास्कार्ति परां बिभ्रता
श्रीसिंहेन च पापना गहरिणा श्रीसूरिणोल्लासिते ॥ ८ ॥ पृथ्वीं पादप्रचारतो विदधतो ध्वस्तान्धकारां वरां
निर्मातुः रामसागरोदयरमां सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य व साधोस्तारकपस्य वृद्धिविजयाभिख्यस्य वै सद्गुरोः ॥ ९ ॥ पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो
भूपालावलिमौलिलालितपदाम्भोजो जनानन्ददः । उच्चाचारप्रचारप्रोद्यतमना नानामुनीनां गुरुः
प्रोsोढाऽऽगमयोगमुच्चविधिना प्रस्थानपञ्चत्परः ॥ १० ॥ स्वं चास्वं समयं सदा सहृदयं विद्वांश्व दिव्याकृतिनित्यं धर्मकथाविधौ विलसता माधुर्यमाबिभ्रता । गम्भीरध्वनिना घनाघनरवं हास्यास्पदं कुर्वता
तारेणाखिलभव्यकेकिनिकराऽऽनन्दं ददानः सना ॥ ११ ॥ तीर्थानामवने समुद्धृतिकृतौ लीनान्तरालः सदा
शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः ।

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242