Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम् ।
प्रामाण्यम् , इति निरुक्तवचनार्थः। तथा च प्रत्यक्षविषयेऽप्यर्थे विकल्पद्वारैव प्रत्यक्षस्य प्रामाण्यम् , यदि च विकल्पस्तत्र प्रमाणं न भवेत् , न भवेत् तर्हि तद्वारा प्रत्यक्षमपि प्रमाणम् , यथा च नीलादिविकल्पकारणस्य नीलादिप्रत्यक्षस्यानुभवत्वं तथाऽतीताऽनागताकारज्ञानरूपविकल्पकारणप्रत्यक्षस्यापि समनन्तरप्रत्ययात्मकस्यानुभवत्वमित्येवं नीलादिविकल्पाऽतीतत्वा-ऽनागतत्वविकल्पयोरविशेषे नीलादिविकल्पस्येवातीतत्वानागतत्वविकल्पस्यापि स्वविषयसाधकत्वं स्यादेवेति “ अनुभवाविशेषे विकल्पाविशेषः” इतिमूलशङ्काभिप्रायः। नीलादिवस्तुसाधकनीलादिविकल्पोपादानभूतप्रत्यक्षतो विलक्षणाऽतीतानागताकारज्ञानस्वरूपविकल्पोपादानीभूता प्रत्यक्षव्यक्तिः , यस्याः प्रभूतवासनालक्षणदोषः सहकारीति दोषसहकृतप्रत्यक्षप्रभवस्यातीतत्वादिविकल्पस्य दोषासहकृतप्रत्यक्षप्रभवनीलादि. विकल्पव्यक्तितो वैलक्षण्यमिति न नीलादिविकल्पस्येवातीतादिविकल्पस्य वस्तुसाधकत्वमित्यभिप्रायः “न-उपादान०'' इत्यादिसमाधानमूलस्य ॥
१२७ पृष्ठे १७ पङ्क्तौ ‘बोध्यम्' इत्यनन्तरम् - ऋजुसूत्राद् विशेषोऽस्य भावमात्राभिमानतः । सप्तभङ्गयर्पणाल्लिङ्गभेदादेर्वाऽर्थभेदतः ॥ १॥ [ नयोपदेश-श्लो०३४] इति वचनाद् भावनिक्षेपमात्राभ्युपगन्तृत्वं सप्तभयर्पकत्वं लिङ्गभेदादितोऽर्थभेदाभ्युपगन्तृत्वं चेत्येतत्त्रयं साम्प्रताख्यस्य शब्दनयस्यार्थनयाद बाजुसूत्राद् विशेषः, तत्र सप्तभङ्गी द्विविधा-अर्थनयाश्रिता शब्दनयाश्रिता च, तत्रार्थनयाश्रितायां सप्तभङ्गयां न शब्दनयाभ्युपगतमङ्गस्य घटकता, शब्दनयाश्रितायां च सप्तभङ्गयां नार्थनयाभ्युपगतभङ्गस्य प्रवेश इति शब्दप्राधान्या-ऽर्थप्राधान्याभ्युपगमसनुत्थयोः सतभङ्गयोविभिन्न प्रस्थानयो त्राधिकारः, यतोऽर्थनयाश्रिता सप्तमङ्गी सङ्ग्रहनयोत्थसत्त्वप्रतिपादकप्रथमभङ्ग-व्यवहारनयोत्थासत्वप्रतिपादकद्वितीयमङगऋजुसूत्रनयोत्थाऽवक्तव्यत्वप्रतिपादकतृतीयभङ्ग-सङ्ग्रह-व्यवहारनय

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242