Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 227
________________ प्रमोदाविवृतिसंवलितं द्वयसमुत्थक्रमिकसत्त्वाऽसत्त्वोभयप्रतिपादकतुरीयभङ्ग : प्रथमतृतीयसंयोगजपञ्चमभङ्ग-द्वितीयतृतीयसंयोगजषष्ठभङ्ग-प्रथमद्वितीयतृतीयसंयोगजसप्तमभङ्गैश्च संघटितमूर्तिः, शब्दनयाश्रिता सप्तभङ्गी पुनः पर्यायभेदेऽप्यर्थस्याभेद इन्यभेदाभ्युपगमप्रवणसाम्प्रताख्यशब्दनयसमुत्थप्रथमभङ्ग-पर्यायक्रियाभेदप्रयुक्तार्थभेदाभ्युपगमप्रवणसमभिरूढैवम्भूता. ख्यशब्दनयसमुत्थद्वितीयभङ्गघटिता,त्रिभिरपि शब्दनयैर्युगपद्भेदाऽभेदोभयविवक्षया तृतीयस्थावक्तव्यत्वभङ्गस्य, क्रमिकतदुभयविवक्षया तुरीयभङ्गस्य, प्रथम-तृतीयभङ्गसंयोगादितः पञ्चम-पष्ठ-सप्तमभङ्गानां सम्भवात् तृतीयादिभङ्गैश्च घटिता, किन्तु शब्दप्रधाने शब्दनये वचनातीतगोचरोऽवक्तव्यत्वभङ्गोन सम्भवति, परमत्रापि तृतीयभङ्गो. ल्लास ऋजुसूत्रादेवेति पर्यालोचनया शब्दा-ऽर्थनययाश्रिता या सप्तभङ्गी तस्या एत्राधिकारः, यस्याः सप्तभङ्गयाः प्रथमभङ्गो यत्रयसमुत्थस्तस्यां तन्नयस्य प्राधान्यमिति कृत्वा तत्र साम्प्रतनयस्य प्राधान्यमिति सा शब्दनयसप्तभङ्गीति व्यपदेशार्हा, तत्र प्रथमतृतीय-तुर्य पञ्चम सप्तमभङ्गाः साम्प्रतनयविषयविषयकत्वात् साम्प्रतनयसमुत्थाः, तृतीय-पञ्चम-षष्ठ-सप्तमभङ्गा ऋजुसूत्रनयसमुत्था इत्येकाधिकभङ्गाभ्युपगन्तृत्वात् साम्प्रताख्यशब्दनयस्य ऋजुसूत्राद् विशेष इति सूक्ष्मेक्षिकयाऽऽभाति ॥ १३६ पृष्ठे, २६ पङ्क्तौ, तस्येति' इत्यनन्तरम् प्रथमनयेन यद्धर्मविशिष्टोऽर्थो गोचरीक्रियते तदवान्तरधर्मविशिष्टतयैव तद्विषयीभूतार्थस्य गोचरीकरणमुत्तरनयेन, विशेष्यीभूतधर्मिणमुपादायैव पूर्वोत्तरनययो. समानविषयत्वलक्षणप्रसङ्गसङ्गतिरिति पूर्वनयाऽविषयीभूतावान्तरधर्मविषयकत्वाद् उत्तरनयनिरूपणस्य न वैफल्यम्, प्रकृते तु नैगमादिनयेषु धात्वर्थक्रियालक्षणधर्मस्योपलक्षणविधया विषयत्वम्, एवम्भूतनये तु विशेषणतया विषयत्वमिति विशेषः ॥

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242