Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 215
________________ १६६ प्रमोदाविवृतिसंवलितं ४८ पृष्ठे चतुर्थपतितो मुद्रितस्य सुखावबोधाय विस्तरः मृ० शब्द- समभिदैवम्भृतास्तु-प्रस्थकाधिकारजगतात् प्रस्थककर्तृगताद् वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं नः सहन्ते, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगात्, बाह्यमस्थकस्याप्यनुपलम्भकालेऽसत्त्वेनोपयोगानतिरेकाश्रयणाडू अन्ततो ज्ञानाऽद्वैतनयानुप्रवेशाद् वा । न चज्ञानाऽज्ञानात्मकत्वो भयनयविषय समावेशविरोधात् प्रत्ये कमनयत्वमाशङ्कनीयम् तादात्म्येनो भयरूपाऽसमावेशे sपि विषयत्व तादात्म्याभ्यां तदुभयसमावेशात् । विषयत्वमपि कथञ्चित्तादात्म्यमिति तु नयान्तराकृतम् यदाश्रयणेन 'अर्थाऽभिधान प्रत्ययानां तुल्यार्थत्वम उक्तमिति दिक् ।। ; , त्रयाणां शब्दनयानां प्रस्थकविषये समानाभिप्रायाणां वक्तव्यमुपदर्शयति-शब्द- समभिदेवम्भूतास्त्विति-अस्य 'न सहन्ते' इत्यनेनान्वयःम atraपरिमितमपि भूमौ न्यस्तं कुशूलादिगतं वा धान्यम् ' एतत् प्रस्थकप्रमितम्' इति यावन्नाऽवगतं तावत् प्रस्थकस्तन्न भवति प्रमा णाभावात् एवं प्रस्थक एव धान्यादिमापकः सन्नपि बाह्यो यावन्न मापनव्या त्या निश्चीयते-अयं प्रस्थकः' इति तावत् प्रमाणाभावात् स प्रस्थको न भवति, तथा च प्रस्थकाकारज्ञानमेव प्रस्थकस्वरूपतन्मेयनिर्णायकत्वात् प्रस्थक इति तच प्रस्थकाकारज्ञानं प्रस्थकाfurnitari प्रस्थककर्तृगतं वा भवितुमर्हति तत्र 'अयं प्रस्थकप्रमितं धान्यादिकमिच्छति, धान्यादिकं मातुं वा प्रस्थकमिच्छति' दतीच्छाविशेष लक्षणमधिकारिपुरुपगतं प्रस्थकाधिकारं यो जानाति स

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242