Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 217
________________ १६८ प्रमोदाविवृतिसंवलितं मापकेषु काप्रस्थकः? इति, तत्र 'अयं प्रस्थकः' इति प्रस्थककर्तृपुरुषवचनतो निश्चिनोति-अयं प्रस्थक इति, अत्रापि तद्वचनस्य जडात्मकत्वेन निश्चयप्रमाणात्मत्वाभावान साक्षात् प्रामाण्यं किन्तु स्वोल्लिखितप्रस्थककर्तृगतप्रस्थकोपयोगस्य निश्चयप्रमाणात्मत्वेन तत्र प्रामाण्यमिति तद्वारा प्रामाण्यम्, अत एव तदर्थमुपस्थिता लोका एवं कथयन्ति 'प्रमाणमत्र प्रस्थककर्ताऽयं देवदत्तः' इति , तस्य स्वगतनिश्चयप्रमाणात्मकप्रस्थकोपयोगाधारत्वादेव प्रामाण्यम्, अतो व्यवस्थितमिदम् प्रस्थककर्तृगतं प्रस्थकशानं प्रस्थक इति । शब्दोल्लिखित एवोतदिशा प्रस्थकाधिकारज्ञगतः प्रस्थककर्तृगतो वा प्रस्थकोपयोगः प्रस्थक इत्यतः शब्दस्यात्र प्राधान्यमिति शब्दप्राधान्योपगन्तृणां शब्दसमभिरूद्वैवम्भूतानामित्थं मन्तव्यमिति । प्रस्थकोपयोगातिरिक्ते वस्तुनि प्रस्थकत्वाऽसहने प्रस्थकत्वाऽनभ्युपगमलक्षणे हेतुमुपदर्शयति-निश्चयमानान्न प्रस्थकस्येति-'प्रस्थकाधिकारज्ञगताद इत्यादिविशेषणोक्त्येदमपि सुनिश्चितमेव, यदुत-यः प्रस्थकोपयोगो न प्रस्थकाधिकारशगतो नवा प्रस्थककर्तृगतः स निरुतविशेषणविशिष्टप्रस्थकोपयोगातिरिक्तत्वात् प्रस्थको न भवति, यद्यपि शब्दनयानां ज्ञानाऽद्वैताभ्युपगन्तृत्वपर्यवसाने घटादिकं निखिलमेव बाह्यवस्तु स्वाकारोपयोगस्वरूपामति वाहाप्रस्थकोऽपि स्वाकारोपयोगस्वरूप इत्यतः सर्वस्यापि प्रस्थकोपयो. गस्य प्रस्थकरूपता सिध्यति, तथापि प्रस्थकोपयोगवन्तोऽपि निरुक्तपुरुषद्वयव्यतिरिक्ताः पुरुषा अन्येन 'किमयं प्रस्थक?' इति पृष्टाः सन्तः कथयन्ति-प्रस्थकाधिकारशात् प्रस्थककर्तुळ सकाशादयं प्रस्थक इति वयमवगच्छामः, नाऽत्राऽस्मदीयशानानामस्माकं चैतनिर्णये स्वातन्त्र्यम्, किन्तु स्वतन्त्रौ तावेवात्र प्रमाणमिति; तथा च निश्चयमानात्मकप्रस्थकोपयोगः प्रस्थकाधिकारज्ञ-प्रस्थककन्यतरगतः प्रस्थक इति, तदाधारत्वाश्च तावपि प्रमाणभूतत्वेन प्रस्थकः, निश्चयमानात्मकप्रस्थकस्य प्रस्थकोपयोगस्वरूपस्य जडवृत्तित्वाभावेन

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242