Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 209
________________ १६० प्रमोदाविवृतिसंवलितं यचरणगुणस्थितःसाधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः" इति श्रीहरिभद्रीया वृत्तिः] त्ति। चरणगुणस्थितिश्च परममाध्यस्थ्यरूपा न रागद्वेषविलयमन्तरेणेति तदर्थमवश्यं प्रयतितव्यमित्युपदेशसर्वस्वम् ।। [प्रशस्तिः -] यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः। प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः सोऽयं न्यायविशारदः स्म तनुते काश्चिन्नयप्रक्रियाम् ॥१॥ सर्वेषामिति। तभेदानां मूलनयभेदानाम् , अन्यद् व्यक्तम्। तदर्थ रागद्वेषविलयार्थम् ॥ निर्मितस्यास्य नयरहस्यप्रकरणस्योपादेयत्वव्यक्तये तत्कर्तुः स्वस्य वैशिष्ट्यं प्रकटयति-यस्येति। समीचीनशिक्षणाध्यापनादिकर्तृस्वादिबहुविधगुरुगुणवत्त्वाववोधनाय गुरव इति बहुवचनम् । अत्र अस्मिन् गच्छे, एतेन अन्यत्रापि न्यायादिविद्याप्रदानकुशलाः काइयां गुरवः, येभ्यो न्यायादिविद्यामासादितवानस्मीति सूचितम् । प्राशत्वविशेषणात् स्व-परनयरहस्याभिज्ञत्वं तेषां ज्ञापितम्। प्रकृष्टाशयत्वविशेषणाच्च यथा स्वयमवगच्छन्ति तथैव हितबुद्धया शिष्येभ्य उपदि शन्ति, न तु क्षुद्राशयपुरुषवत् प्रतारणाद्यभिप्रायेणाऽन्यथाऽवगतमर्थमन्यथोपदिशन्तीति, तथा चैतादृशविशिष्टगुरुप्रसादतो ज्ञाततत्त्वस्य ममान्यातिशायिविद्यावत्यं प्रति किमु वक्तव्यमिति ध्वनितम् । जीतविजयश्च स्वगुरुनयविजयसतीर्थ्य इति तस्मात् प्राप्तविद्यावतोऽपि मम स्वगुरुनयविजयतोऽपिविद्याप्राप्तिवैशिष्ट्यहेतुरेवेत्याशयेनाह-भ्राजन्त

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242