________________
१६०
प्रमोदाविवृतिसंवलितं
यचरणगुणस्थितःसाधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः" इति श्रीहरिभद्रीया वृत्तिः] त्ति। चरणगुणस्थितिश्च परममाध्यस्थ्यरूपा न रागद्वेषविलयमन्तरेणेति तदर्थमवश्यं प्रयतितव्यमित्युपदेशसर्वस्वम् ।।
[प्रशस्तिः -] यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः। प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः सोऽयं न्यायविशारदः स्म तनुते काश्चिन्नयप्रक्रियाम् ॥१॥ सर्वेषामिति। तभेदानां मूलनयभेदानाम् , अन्यद् व्यक्तम्। तदर्थ रागद्वेषविलयार्थम् ॥
निर्मितस्यास्य नयरहस्यप्रकरणस्योपादेयत्वव्यक्तये तत्कर्तुः स्वस्य वैशिष्ट्यं प्रकटयति-यस्येति। समीचीनशिक्षणाध्यापनादिकर्तृस्वादिबहुविधगुरुगुणवत्त्वाववोधनाय गुरव इति बहुवचनम् । अत्र अस्मिन् गच्छे, एतेन अन्यत्रापि न्यायादिविद्याप्रदानकुशलाः काइयां गुरवः, येभ्यो न्यायादिविद्यामासादितवानस्मीति सूचितम् । प्राशत्वविशेषणात् स्व-परनयरहस्याभिज्ञत्वं तेषां ज्ञापितम्। प्रकृष्टाशयत्वविशेषणाच्च यथा स्वयमवगच्छन्ति तथैव हितबुद्धया शिष्येभ्य उपदि शन्ति, न तु क्षुद्राशयपुरुषवत् प्रतारणाद्यभिप्रायेणाऽन्यथाऽवगतमर्थमन्यथोपदिशन्तीति, तथा चैतादृशविशिष्टगुरुप्रसादतो ज्ञाततत्त्वस्य ममान्यातिशायिविद्यावत्यं प्रति किमु वक्तव्यमिति ध्वनितम् । जीतविजयश्च स्वगुरुनयविजयसतीर्थ्य इति तस्मात् प्राप्तविद्यावतोऽपि मम स्वगुरुनयविजयतोऽपिविद्याप्राप्तिवैशिष्ट्यहेतुरेवेत्याशयेनाह-भ्राजन्त