________________
१५९
नयरहस्यप्रकरणम् ।
न्वेषणीया । फलं पुनर्विचित्रनयवादानां जिन प्रवचनविषयरुचिसम्पादनद्वारा रागद्वेषविलय एव । अत एवायं [श्रीभद्रबाहु ] भगवदुपदेशोऽपि [ आवश्यक निर्युक्तौ ] - " सव्वेसि पि णयाणं बहुविहबत्तव्वयं णिसामित्ता । नं सव्वणविद्धं जं चरणगुणडिओ साहू" ।। १०६५।। [" सर्वेषामपि सूलनयानाम्, अपिशब्दात् तद्द्भेदानां च, नयानां द्रव्यास्तिकादीनाम्, बहुविधवक्तव्यतां सामान्यमेव, विशेषा एव, उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपाम्, निशम्य श्रुत्वा तत् सर्वनयविशुद्धं सर्वनय सम्मतं वचनम्,
प्रमाणराजदृष्टमार्गे एव वस्तुस्थितिर्नान्यत्रेति सूचितम् । यदि स्याद्वादत एवं वस्तुस्थितिस्तर्हि विचित्रनयवाद विचारोऽनारम्भणीय एव परीक्षकाणां फलाभावादित्यत आह-फलं पुनरिति यत् किमपि वचनवीथी मवतरति तत् सर्वमपि जिनप्रवचनविरयः, तस्य परस्परविरोधप्रतिभासे तद्विषये रुचिरपि दोलायमानेव स्वात् एवं सति कस्यचित् क्वचिद्विषयेऽमिनिवेशादिष्ट साधनातिसन्धानतो रागः क्वचिच द्विटसाधनताप्रतिसन्धानतो द्वेषश्च सतुविपात् विचित्रचादे तु विचारितेऽयमर्थोऽनेन नयेन घटवेऽयं चानेनेति जिन प्रवचनविषयाः सर्वेऽप्यर्थाः समीचीना एवेति रुचिरुपजायते तता रागद्वेषविलयोऽपीति फलवान् विचित्रनयवादद्विचार इत्याशयः ।
,
उक्तार्थे भगवच्छ्रीभद्रबाहुसंवादमुपदर्शयति-अत एवेति-जिनप्रवचनविषयरुचिसम्पादनद्वारा विचित्रतयवादानां रागद्वेषविलयलक्षणफलवत्त्वादेवेत्यर्थः । सव्वेसि पि ० इति – “सर्वेषामपि नयानां बहुविधवतव्यतां निशम्य । तत् सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः " ||१|| इति संस्कृतम्, अस्या गाथाया हरिभद्रया व्याख्या