________________
१५८
प्रमोदाविवृतिसंचलितं
यमाणमेतन्नये न कृतम् , कारणचक्रसम्पत्युत्तरमेव कार्य. सिद्धेः, अन्यथा समसमयभावित्वे कार्यकारणभावव्यव. स्थाऽयोगाद्,उपादानोपादेयभावस्यापिपरस्परोपमर्दनिय. तस्य क्षणभेदनियतत्वात् । न च वर्तमानत्वमतीतत्वं चैकत्र व्यवहारसिद्धम् ,न चानीहशेऽर्थे प्रमाणावतारः, न च यत्किचिदव्यहारदर्शनात् सर्वत्र तदनाश्वासो न्याय्य इत्यादिकं व्यवहारनिश्चययोमिथो विवादमवलोक्य वस्तुस्थितिरणत्वानभ्युपगमादेव । एतन्नये व्यवहारनये। अन्यथा कारणचक्रलम्पत्युत्तरं कार्यमित्यस्यानभ्युपगमे। समसमयभारित्वे कार्यकारणयोः समानसमयमात्र। पूर्ववर्ति कारणमुत्तरकाल पति कार्यमित्यव्यवदितपूर्वापरीभावे स्याद् व्यवस्था, सरसमयत्वे तुइयोः समसमयत्वाविशेषात् कारणत्वेनाभिमतमपि कार्य कार्यत्वेनाभिमतमपि कारणं किं न स्यात? विशेषान्तराभावात् , समसमयभाविनोः सव्येतरगोविषाणयोरिव वा कार्यकारणभाव एव न भवेदित्याह-कार्यकारणभावब्यवस्थाऽयोगादिति । ननु यदुपादानं तत् कारणं यदुपादेयं तत् कार्यमित्येवं समसमयत्वेऽपि व्यवस्था भवेदित्यत आह-उपादानोफतदेयभावस्यापीति-यदुपट्टद्य यद् अवति तदुपादेयमुपमर्दक नुपादानं चोपमद्यमित्यपि क्षणभेदे सत्येव भवितुमर्हति नैकक्षणवृत्तित्वे इत्याशयः । वर्तमानत्वे सति भवति क्रियमाणत्वप्रतीतत्वे सति भवति कृतत्वम् , तयोश्च विरोधान्नैकत्र व्यवहारतः प्रसिद्धिरित्याह-न चेति । यच्च व्यवडियते तत्रैव प्रमाणप्रवृत्तिः, अव्यवडियमाणे च प्रमाणमपि न प्रवर्तते, क्रियमाणस्य कृतत्वे व्यवहृतिनये प्रमाणमपि नास्तीत्याह-न चानीदृशेऽयं इति । नन्वेकस्य कस्यचिद् व्यवहाराभावेऽप्यन्यस्य व्यवहारः क्वचिद दृश्यते, तथा यत्रापि व्यवहारो न दृश्यते तत्राऽपि व्यवहारः कस्यचित् कदाचिद् भविष्यतीति सम्भावनयाऽनाश्वास इत्यत आह-न चेति । 'अन्वेषणीया' इत्यनेनान्वेषणे सम्यक् क्रियमाणे स्याद्वाद.