________________
नयरहस्यप्रकरणम्।
१५७
द्रूपत्वं नियम्यत इति वाच्यम् , क्षणत्वेन सर्वेषामविशेषादेकस्वभावस्य कुतोऽपि विशेषायोगात्। किञ्च, एवं कार्येण कारणानुमानोच्छेदः, सामान्यतः कारणताग्रहाभावात् । न च सादृश्येन तथाग्रहाददोषः ? पूर्वापराननुसन्धानेन क्षणिकपक्षेसादृश्यस्यैव ग्रहीतुमशक्यत्वादित्यादिकं व्युत्पादितमनेकान्तजयपताकादौ पूर्वसूरिभिः। अत एव क्रिनोपेयते किन्तु पूर्ववर्तितयैव कारणत्वमुपादानस्य, तच्चान्यकारणानामपि समानमेवेति इदमुपादानमिदं च सहकारीति नियम एव क्षणिकवादिमते न सम्भवतीति पूर्ववर्तित्वस्वभावः सर्वेषां क्षणानामेक एव, स्वभावान्त चोपदर्शयितुमशक्यमेवेति नोक्तदिशा कुर्वद्रूपत्वनियमसम्भव इति निषेधहेतुमुपदर्शयति-क्षणत्वेनेति । किञ्च निश्चयनये वह्नित्वेन धूमत्वेन न कार्यकारणभावः किन्तु धूमं प्रति धूमकुर्वद्रूपत्वेनैव कारणत्वमिति धूमात्मककार्येण वह्नयात्मककारणानुमान न स्यादित्याह-किञ्चेति । एवं कुर्वद्रूपत्वेन कारणत्वाभ्युपगमे । कार्येण धूमत्वेन धूमलक्षणकार्येण । कारणानुमानोच्छेदः वलित्वेन वह्निरूपकारणानुमानोच्छेदः। सामान्यतः वनित्व-धृमत्वादिना । ननु धूम प्रति धूमकुर्वद्रपात्मकवलेरेव यद्यपि कारणत्वं तथापि सौवसादृश्यादकुर्वद्रूपस्यापि वह्ने कारणत्वग्रहात् तेन तदनुमानं भविष्यतीत्याशङ्का प्रतिक्षिपति-न चेति । तथाग्रहाद् कारणताग्रहात् । अदोष इति-कार्यमा कारणानुमानस्योच्छेदो नेत्यर्थः। पूर्वपूर्ववह्निना सममुत्तरोत्तरवह्नः सादृश्यग्रह एव क्षणिकपक्ष न सम्भवति, पूर्ववह्निग्रहकाले उत्तरवढेरग्रहादुत्तरवह्निग्रहकाले पूर्वयढेरग्रहात् प्रतियोग्यनुयोगिनोरग्रहे सादृश्यग्रहासम्भवादित्याह-पूर्वापराननुसन्धानेनेति । एतद्विशेषजिज्ञासुभिरनेकान्तजयपताकादिकमवलोकनीयम् , विस्तरभयान्नेह तत्वपञ्चः क्रियत इत्याशयेनाह-इत्यादिकमिति । अत एव कुर्वद्रूपत्वेन कार