________________
प्रमोदाविवृतिसंवलितं
तत्त्वव्यवस्थायामपि व्यवहारतोऽकुर्वतोऽपि नियतपूर्ववर्तिनः कारणत्वाभ्युपगमात् , अन्यथा पूर्व कुर्वद्रूपत्वानिश्चये प्रवृत्त्यनुपपत्तिप्रसङ्गात् । किञ्च, इदं कुर्वद्रूपत्वमपि सहकारिसम्पत्तावेव नान्यथेत्यवस्थितकारणादेव सहकारिचक्रानुप्रवेशात् कार्योपपत्तौ किं कुर्वदकुर्वतोर्भेदाभ्युपगमकष्टन । न चोपादानोपादेयभावनियतैः क्षणैरेव कुर्वक्रियमाणं कृतमेव, निश्चयत इत्यमेव तत्त्वव्यवस्थायामपीत्येकं वाक्यम्। निश्चयनयतश्चरमकारणमेव कुर्वद्रूपत्वात् क्रियानयाभिमतं कारणमित्यस्य युक्तत्वेऽपि व्यवहारतो नैतद् युक्तमित्याह-व्यवहारत इति । अकुर्वतः तदानीमकुर्वतः । अन्यथा कुर्वद्रूपत्वेनैव कारणत्वाभ्युपगमे । पूर्व कार्योत्पत्तेः प्राक् । प्रवृत्त्यनुपपत्तिप्रसङ्गात् तत्तत्प्रतिनियतकार्योत्पादनार्थ तत्तत्कारणसंघटनगोचरप्रवृत्त्यनुपपत्तिप्रसङ्गात् , इष्टसाधनतानिश्चयस्य प्रवर्तकत्वात् कुर्वद्रूपत्वात्मककारणतावच्छेदकनिश्चयाभावे इष्टसाधनतानिश्चयस्यैवाभावादित्यभिसन्धिः। किञ्च, कुर्वद्रूपत्वमेव नास्ति कुतस्तद्रूपेण चरमकारणस्य कारणत्वसम्भव इत्याहक्रिञ्चेति। इदं कारणतावच्छेदकतया निश्चयनयसम्मतम्। सहकारिसम्पत्तावेव यावत्सहकारिसमवधाने सत्येव कारणे भवति। नान्यथा सहकारिसम्पत्तावसत्यां कुर्वद्रूपत्वं न भवति, एवं च कुर्वद्रूपत्वं किमिति प्रकल्प्यं ? सकलसहकारिसमवहितात् स्थिरकारणादेव कार्योत्पत्तिसम्भवे सहकार्यसमवहितं कुशूलस्थवीजमकुर्वद्रूपमन्यत्, अन्यच्च सकलसहकारिसमवहितं कुर्वद्रूपं बीजमित्येवं कुर्वद्रूपाकुर्वद्रूपभेदाभ्युपगमेनालमित्याह-इत्यवस्थितकारणादेवेति । ननु पूर्वपूर्वकारणादुपादानरूपाजायमानमुपादेयस्वरूपं तत्तत्कार्यकुर्वद्रूपात्मकमेवोपजायत इत्येतावतैव कुर्वदूपत्वनियमनं भविष्यतीति न तत्र सहकारिचक्रनियम्यत्वमुपेयत इत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन सम्बन्धः। एतन्मते उपादेयकाले उपादानसत्ता