________________
नयरहस्यप्रकरणम्।
त्वोपस्थित्यैव न भवति । इत्थमेव क्रियमाणं कृतमेव, कृतं च क्रियमाणत्वेन भजनीयमितिसिद्धान्तः सङ्गच्छते, सिद्धत्वविशिष्टसाध्यतायाः सिद्धत्वनियतत्वात् , शुद्धसिद्धतायाश्च विशिष्टसाध्यतानियतत्वात् । अस्तु वा विपरिणाम-स्वरूपनिष्पत्त्यादिरूपाऽननुगतैव निष्टा,समभिव्याहारविशेषादेव बोधविशेषोपपत्तेः, परमुक्तयुक्तेः क्रियाकालो निष्ठाकालं न विरुणद्वीति गम्भीरनयमतं कियदिह विविच्यते ? इति, सत्यम्-निश्चयत इत्यमेव कृतमिति, यच्च पूर्वमेव कृतं तत्र सिद्धत्वमेव न तु साध्यत्वमिति तथाविधकृतस्य न क्रियामाणत्वम्, यच्चेदानीमेव किञ्चिदंशेन निष्पन्न किश्चिदंशेन साध्यते तत् कृतं क्रियमाणमपीति स्याद्वाद एव तत्र प्रगल्भत इत्याशयेनाह इत्यमेवेति। विशिष्टसद्भावे विशेषणसद्भावोऽ. वश्यंभावीति सिद्धत्वविशिष्टसाध्यता यत्र तत्रावश्यमेव सिद्धत्वम् , " किञ्चित् सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥१॥ इति वचनाद् वर्तमानक्रियाकाले सिद्धत्वविशिष्टसाध्यतावति सिद्धत्वस्यावश्यंभावात् क्रियमाणं कृतमित्य शयेनाह-सिद्धत्वविशिष्टेति। सामान्यतः सिद्धत्वं च यत् सर्वथा निष्पन्नं यच्च किञ्चिदशेन निष्पन्न किञ्चिदंशेन च साध्यते तदुभयत्र समस्तीति तत्र यत् सर्वथा निष्पन्नं तत्र कृतत्वमेव न क्रियमाणत्वम् , अन्यत्र तु कृतत्वमपि क्रियमाणत्वमपीति कृतस्य क्रियमाणत्वे भजनेत्याशयेनाह- शुद्धसिद्धतायाश्चेति । क्वचिद् विपरिणाम एव निष्टाप्रत्ययार्थः क्वचिच्च स्वरूपनिष्पत्तिरित्येवमननुगतत्वेऽपि समभिव्याहारविशेषात् कस्यचित् कुत्रचित् प्रतीत्युपपत्तिरेवमपि क्रियाकाल निष्ठाकालयोरविरोधात् क्रियामाणं कृतमित्युपपद्यत इत्याशङ्किता स्वाभिप्रेतमुपसंहरतिअस्तु वेत्यादिना। समाधत्ते-सत्यमिति। निश्चयतः निश्चयनयतः। इत्थमेव