________________
प्रमोदाविवृतिसंवलितं
तस्य
अथ ज्ञातो घट इत्यत्र विषयस्यैव नष्टो घट इत्यत्र प्रतियोगिनोऽपि प्रत्यय विशेषार्थत्वान्नान्वयानुपपत्तिरिति चेत् ? तथापि नाशोत्पत्तिकालेऽपि निष्ठार्थाविरोधात् क्रियमाणं कृतमित्यन्वयोपपत्तेः, पक्व इत्यादाविव सर्वत्र कालवृत्तिताविशेषरूपसिद्धत्वस्य निष्ठार्थत्वात्, चाद्यसमयावच्छेदेन साध्यत्वेन सममविरोधात्, सिद्धत्वविशिष्टसाध्यताया वर्तमानार्थत्वात्, "प्रारब्धोऽपरि समाप्तश्च वर्तमानः" इति हि वैयाकरणाः, चिरनष्टे इदानीं नष्ट इति, चिरोत्पन्ने चेदानीमुत्पन्न इति च प्रतीतिः समभिव्याहारविशेषादेतत्कालावच्छिन्न साध्यत्वविशिष्टसिद्ध
१५४
एवं च जानातीत्यादो धात्वर्थस्य लाक्षणिकस्यापि न नामार्थेऽन्वयसम्भव इति प्रत्ययार्थमाश्रयत्वमन्तराकृत्यैव तत्रान्वय इति नष्टो घट इत्यादौ नशधातोर्नाशयति लक्षणामभ्युपेत्य तस्याभेदेन घटेऽन्वय इति न सम्भवतीत्यर्थः । शङ्कते - अथेति यथा ज्ञातो घट इत्यत्र ज्ञानविषयाभिन्नो घट इत्यन्वयबोधस्तथा नष्टो घट इत्यत्र नाशप्रतियोग्यभिन्नो घट इत्यन्वयबोधः सम्भवतीत्यर्थः । एवं सति निष्ठार्थः प्रतियोगित्वं नाशोत्पत्तिकालेऽपि नाशप्रतियोगिनि घटे घटत इति तदानीमपि नष्ट घट इति स्यादेव तद्द्दष्टान्तबलादेव च क्रियमाणं कृतमित्यपि युज्यत एव कालवृत्तिताविशेषरूपस्य सिद्धत्वस्य क्रियमापि भावात् । पक्व इत्यादौ यथा कालवृत्तिताविशेषरूपमेव सिद्धत्वं निष्टार्थस्तथा सर्वत्राऽपीत्याह - पत्र इत्यादाविवेति। तस्य च निरुक्त सिद्धत्वस्य च । सिद्धत्वविशिष्टसाध्यत्वस्य वर्तमानत्वरूपत्वे वैयाकरणानां सम्म तिमाह - प्रारब्ध इति । समभिव्याहारविशेषात् इदानपद-नटपदयोरिदानीं - पदोत्पन्न पदयोश्च पूर्वापरीभावलक्षणाऽऽकाङ्क्षाविशेषात् । क्रियमा णस्य किञ्चिदंशेन सिद्धत्वं किञ्चिदेशेन साध्यत्वमिति सिद्धांशोपादानेन कृतमिति साध्यांशोपादानेन क्रियमाणमिति भवति क्रियमाणं