________________
नयरहस्यप्रकरणम्।
१५३
अथाख्यातार्थसङ्ख्यान्वये भावनाविशेष्यत्वं न तन्त्रम् , किन्तु प्रथमान्तपदोपस्थाप्यत्वमेवेति न दोष इति चेत्, नधात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्योपस्थितेहेतुत्वाच्छक्त्येतिप्रवेशे गौरवात्, प्रजयतीत्यादावनन्वयप्रसङ्गाच। पाकोऽयमित्यादौ तु 'स्तोकं पचति', 'स्नोकः पाक' इति प्रयोगयोर्विशेषाय घनादीनां धात्वर्थतावच्छेदकविशिष्ट शक्तिस्वीकारान्न दोष इति दिक् । स्यादित्याशङ्कते-अथेति । न तन्त्रं न प्रयोजकम् । लाक्षणिकधात्वर्थस्य प्रातिपदिकार्थेऽभेदसम्बधेनान्वयाभ्युपगमे शक्त्या धातूपस्थाप्यार्थ प्रकारकशाब्दबोधे समानविशेष्यतयाऽऽख्यातादिजन्योपस्थितेः कारणत्वं वाच्यमिति कार्यतावच्छेदककोटौ शक्त्येत्यधिकस्य निवेशाद् गौरवं स्यादतः शक्त्येत्यनिवेश्यैवोक्तकार्यकारणभावो वाच्य इति न लाक्षणिकस्यापि धात्वर्थस्य नामार्थऽन्वयसम्भव इति समाधत्ते-नेति । प्रजयतीत्यादौ धातुशक्यार्थ एव प्रशब्दार्थस्य प्रकृष्टस्यान्वयो लाक्षणिकार्थे तद्वति तदन्वयाभावादेकदेशान्वयाभावाच्चेत्याह-प्रजयतीति । ननु धात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्योपस्थितेः कारणत्वाभ्युपगमे पाकोऽयमित्यादाविदमथै पचूधात्वर्थस्य पाकस्यान्वयोऽपि नभवेदित्याह-पाकोऽयमित्यादाविति-स्तोकपदार्थस्य स्तोकं पचतीत्यादौ धात्वर्थविशेषणत्वात् क्रियाविशेषणानां कर्मत्वातिदेशतः स्तोकपदस्य द्वितीयान्तत्वम्, स्तोकः पाक इत्यादौ च न धात्वर्थविशेषणत्वं स्तोकस्य, किन्तु पचधातूत्तरघा एव पाकत्वावच्छिन्ने शक्तिस्वीकारेण घार्थ एव स्तोकस्यान्वय इति न द्वितीयान्तता, किन्तु घनन्तस्य विशेष्यवाचकपदस्य प्रथमान्तत्वात् तस्यापि प्रथमान्तत्वमेव, एवं पाकोऽयमित्यादावपि न धात्वर्थस्येदमर्थऽन्वयः, किन्तु घार्थस्यैव पाकत्वावच्छिन्नस्य तत्रान्वय इति धात्वर्थप्रकारकबोधसामान्य एव प्रत्ययजन्योपस्थितेः कारणत्वेऽपि न काचिदनुपपत्तिः,