________________
२५२
प्रमोदाविबृतिसंवलितं
आख्यातार्थोऽयोग्यत्वान्न भासत इति चिन्तामणिकृतोक्तं युक्तम् , अन्यथा निरूपितत्वसंसर्गेण ज्ञानप्रकारकाश्रयत्वविशेष्यकावान्तरशाब्दबोधत देतुत्वादिकल्पने गौरवात्। न च सामान्यतो हेतुत्वं क्लतमेवेति क्व गौरवमिति बाच्यम्, तथापि तत्तदाकाङ्काज्ञानादिहेतुनाकल्पने गौरवादिति, मैवम्-तथा सति जानातीत्यत्राख्यातार्थसङ्ख्यानन्वयप्रसङ्गात्, भावनान्वयिन्येवाख्यातार्थसंख्यान्वयात्। नामार्थविशेष्यकशाब्दबोधस्याभ्युपगमादेवेत्यर्थः। अन्यथा जानातीत्यादौ धात्वर्थप्रकारकनामार्थविशेष्यकशाब्दबोधस्यानभ्युपगमे। निरूपितत्वेतितत्राख्यातस्याश्रयत्वे निरूढलक्षणामभ्युपगम्य तत्र धात्वर्थस्य ज्ञानस्य निरूपितत्वसम्बन्धेनान्वयः, तस्य च स्वरूपसम्बन्धेन नामार्थे चैत्रादा. वन्वय इति निरूपितसम्बन्धेन ज्ञानप्रकारकाश्रयत्वविशेष्यकशाब्दबोधे जानातीत्यानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानस्य कारणत्वस्य स्वीकर्तव्यत्वेन गौरवादित्यर्थः। 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः। अन्यत्र धात्वर्थप्रकारकप्रत्ययार्थविशेष्यकशाब्दयोधस्योत्पत्त्या धातुप्रत्ययसमभिव्याहारस्य सामान्यतः कारणत्वं तृप्तमेवेति न गौरवमित्यर्थः । निषेधे हेतुमाह-तथाऽपीति-सामान्यतो हेतुत्वस्य क्लुप्तत्वेऽपीत्यर्थः । उक्ताशङ्कायां समाधानमाह-मैवमिति । तथा सति धात्वर्थस्यैव ज्ञानवतो. ऽभेदेन प्रातिपदिकार्थेऽन्वयाऽभ्युपगमे। आख्याताति-एकवचनलट्प्रत्ययार्थस्यैकत्वस्य चैत्रादिप्रातिपदिकार्थेऽनन्वयप्रसङ्गात् । कुतोऽन. न्वयप्रसङ्ग इत्यपेक्षायामाह-भावनेति-आख्यातार्थस्य कृयादेयंत्रान्वयस्तत्रैवाख्यातार्थसङ्ख्याया अन्वयात् , प्रकृते तु सङ्ख्यातिरिक्तस्याख्यातार्थकृत्यादेरनभ्युपगमेन तदन्वयाभावतः सङ्कयान्वयासम्भवादित्यर्थः। प्रथमान्तपदोपस्थाप्यत्वं यत्र तत्राख्यातार्थसङ्ख्यान्वय इत्येव स्वीक्रियत इति भावनान्वयाभावेऽप्याख्यातार्थसङ्ख्यान्वयः