________________
नयरहस्यप्रकरणम्।
बोधः प्रकृतेऽनपाय एवेति चेत्, न-चैत्रः पाक इत्यादी कर्तृत्वादिसंसर्गेण पाकादेश्चैत्रादावन्वयाबोधाय धात्वर्थप्रकारकबोधेऽपि निपात-प्रत्यान्यतरजन्योपस्थितेहेतुत्वाऽवान्तरकल्पनाया आवश्यकत्वात् । स्यादेतत् , अत्र नश्धातो शवति लक्षणयाऽभेदेनेवास्तु प्रातिपदिकार्थेन सममन्वयः। न च धात्वर्थस्याख्याताद्यर्थ एवान्वयनियमात् कथमेवमिति वाच्यम्, शक्त्यैव धात्वर्थप्रकारकबोधे आख्यातादिजन्योपस्थितेर्हेतुत्वात्, अत एव जानातीत्यादी ज्ञाधातोर्ज्ञानवति लक्षणया प्रातिपदिकार्थेनान्वयसम्भवे क्षिपति-नेति-चैत्रः पाक इत्यादौ कर्तृत्वसम्बन्धेन पाक प्रकारकचैत्रविशेष्यकान्वयबोधापत्तिवारणाय विशेप्यतासम्बन्धेन भेदसम्बन्धावच्छिन्नधात्वर्थनिष्टप्रकारताकशाब्दवोधं प्रति विशेष्यासम्बन्धेन निपातप्रत्ययजन्योपस्थितेः कारणत्वमित्येवं कार्यकारणभावान्तरकल्पनस्यावश्यकत्वेन प्रतियोगितासम्बन्धेनातीतनाशप्रकारकघटविशेष्यकबोधस्य नष्टो घट इति वाक्यतोऽसम्भवादित्यर्थः । शकते-स्यादेतदिति-स्तोकं पचतीत्यत्राभेदसम्बन्धेन नामार्थ धात्वर्थयोरन्वयबोधस्य स्वीकृतत्वेन प्रकृतेऽपि नशधातोः प्रतियोगितासम्बन्धेन नाशवति लक्षणातो नाशविशिष्टरूपार्थस्याभेदसम्बन्धेन घटरूपार्थेऽन्वयबोधस्य सम्भव इत्यर्थः। 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः। कथमेवं कथं धात्वर्थस्य नाशवतोऽभेदसम्बन्धेन घटरूपनामार्थेऽन्वयः। शक्त्या धातुजन्योपस्थितिविषयप्रकारकशाब्दबोधे समानविशेष्यतयाऽऽख्यातादिपदजन्योपस्थितेः कारणत्वमित्येव कार्यकारणभावः, लक्षणया धातुजन्योपस्थितिविषयप्रकारकशाब्दबोधस्य निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वादुक्तकारणाभावेऽपि तत्सम्भवादिति निषेधे हेतुमुपदर्शयति-शक्त्यैवेति । अत एवेति-लाक्षणिकधात्वर्थप्रकारक.