Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 212
________________ नयरहस्यप्रकरणम्। - पञ्चैवेति मतान्तरे तु कथिताः शब्दात् त्रयाणां ग्रहा. ज्ज्ञेयौ नैगम संग्रही व्यवहृतिः शुद्धर्जुसूत्रस्तथा शब्दः सांप्रतनामकः समभिरूढाख्यो नयोऽन्त्यस्तथा चैवम्भूत इतीह नीतिनिपुणैज्ञेयः क्रमस्तत्त्वतः ॥५॥ ते शुद्धास्तु प्रदेश-प्रस्थक-वसत्युन्नीतदृष्टान्ततो .... निर्णीताः क्रमतो यथाक्रमममी संलक्षिता लक्षणैः । तत्त्वार्थादिचिरन्तनोक्तिघटनाऽभीष्टार्थसिद्धौ कृता निक्षेपोपगमेऽपि सनियमिता प्रत्येकमेषां घटा ॥६॥ आदेशान्तरचर्वणेऽपि बहुधा चर्चा प्रसङ्गाऽऽगता '. तत्रापीष्टविशेषितत्वगतये सप्तापि भङ्गाः श्रिताः । । एवम्भूतनयस्य तत्त्वमनने दिग्वाससां सम्मतं ' संक्षेपेण निराकृतं निजमतं संक्षेपतो भावितम् ॥७॥ नीतीनां च बलाबले तु गदिते इच्छाधिते तत्कथा सम्बन्धाद् व्यवहार-निश्चयनयोल्लासोऽपि संवर्धितः। इत्थं न्यायविशारदेन मननं सिद्धान्ततः सत्रितं तत्तत्त्वावगमाय तत्र रचिता व्याख्याऽस्त्वभीष्टप्रदा ॥ ८॥ व्याख्या नयरहस्यस्य मन्दमोदविधायिनी । लावण्यसरिणा हब्धा गुरूणां कृपया मुदा

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242