________________
नयरहस्यप्रकरणम्।
-
पञ्चैवेति मतान्तरे तु कथिताः शब्दात् त्रयाणां ग्रहा.
ज्ज्ञेयौ नैगम संग्रही व्यवहृतिः शुद्धर्जुसूत्रस्तथा शब्दः सांप्रतनामकः समभिरूढाख्यो नयोऽन्त्यस्तथा
चैवम्भूत इतीह नीतिनिपुणैज्ञेयः क्रमस्तत्त्वतः ॥५॥ ते शुद्धास्तु प्रदेश-प्रस्थक-वसत्युन्नीतदृष्टान्ततो .... निर्णीताः क्रमतो यथाक्रमममी संलक्षिता लक्षणैः । तत्त्वार्थादिचिरन्तनोक्तिघटनाऽभीष्टार्थसिद्धौ कृता
निक्षेपोपगमेऽपि सनियमिता प्रत्येकमेषां घटा ॥६॥ आदेशान्तरचर्वणेऽपि बहुधा चर्चा प्रसङ्गाऽऽगता '. तत्रापीष्टविशेषितत्वगतये सप्तापि भङ्गाः श्रिताः । । एवम्भूतनयस्य तत्त्वमनने दिग्वाससां सम्मतं
' संक्षेपेण निराकृतं निजमतं संक्षेपतो भावितम् ॥७॥ नीतीनां च बलाबले तु गदिते इच्छाधिते तत्कथा
सम्बन्धाद् व्यवहार-निश्चयनयोल्लासोऽपि संवर्धितः। इत्थं न्यायविशारदेन मननं सिद्धान्ततः सत्रितं
तत्तत्त्वावगमाय तत्र रचिता व्याख्याऽस्त्वभीष्टप्रदा ॥ ८॥ व्याख्या नयरहस्यस्य मन्दमोदविधायिनी । लावण्यसरिणा हब्धा गुरूणां कृपया मुदा