________________
१४९
नयरहस्यप्रकरणम् ।
इति वाच्यम्, आद्यकृतिप्रागभावचरमकृतिध्वंसयोर्भविष्यदतीतप्रत्ययार्थत्वादिति चेत्, न जानातीत्यादौ धात्वर्थे कालान्वयदर्शनात् । अस्तु वा, तथापि कृत्प्रत्ययार्थोत्पत्तेः प्रातिपदिकार्थे घटे कथमन्वयो योग्यत्वात् । परम्परासम्बन्धेन तत्र तदन्वयोपपत्तिरिति चेत्, नविद्यमानघटे न नष्टो घट इति प्रयोगानापत्तेः, वृत्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वात् । उत्पतेर्धात्वर्थे तस्य च प्रातिपदिकार्थेऽन्वयान्न दोष इति चेत्,
आद्यकृतीति । जानातीत्यादौ ज्ञान एव वर्तमानकालवृत्तित्वस्यान्वयोपगमेन प्रत्ययार्थ एव प्रत्ययार्थवर्तमानकालादेरन्वय इति नियमासम्भवादिति समाधत्ते नेति । धात्वर्थे कालान्वयदर्शनाद् धात्वर्थे ज्ञाने प्रत्ययार्थवर्तमानकालस्यान्वयदर्शनात् । भवतु ज्ञाधातुव्यतिरिक्तस्थले सर्वत्र प्रत्ययार्थ एव प्रत्ययार्थकालादेरन्वय इत्येवमुपगमेऽपि कृत्प्रत्ययार्थनाशोत्पत्तेर्नाश एव सम्भवेन घंटे तदन्वयासम्भवान्नष्टो घटो नश्यन् घट इति प्रयोगानुपपत्तिरित्याह- अस्तु वेति- प्रत्ययार्थे प्रत्ययार्थ कालादेरन्योऽस्तु वेत्यर्थः । तथापि उक्तान्वयसम्भवेऽपि नाशोत्पत्तेरपि स्वाश्रयनाशप्रतियोगित्वलक्षणपरम्परासम्बन्धेन घटेSrasो भविष्यतीति शङ्कते - परम्परासम्बन्धेनेति । तत्र घटे । तदन्वयोपपत्तिः नाशोत्पत्त्यन्वयोपपत्तिः । नाशोत्पत्तेः स्वाश्रयनाशप्रतियोगित्वसम्बन्धो वृत्त्यनियामक एवेति तस्य प्रतियोगितानवच्छेदकत्वेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकनाशोत्पत्त्यभावस्याप्रसिद्ध्या बोधयितुमशक्यत्वेन विद्यमानघटे न नशे घट इति प्रयोगानुपपत्तिरिति समाधत्ते नेति । नष्टो घट इत्यत्रातीतत्वस्य प्रत्ययार्थस्य प्रत्ययार्थोत्पत्तावन्वयः, तस्याश्च विशेषणविधया धात्वर्थे नाशेऽन्वयः, तस्य च प्रतियोगितासम्बन्धेन घटेऽन्वय इत्यतीतोत्पत्तिमन्नाशप्रतियोगी घट इति बोधसम्भव इत्याशङ्कते - उत्पत्तेरिति । तस्य च धात्वर्थस्य