________________
१४८
प्रमोदाविवृतिसंवलितं
धातुपदवत्त्वादिनाऽपि तदनुगमात् । अथान्यत्राप्येकपदो. पात्तत्वप्रत्यासत्त्या कृत्यादिस्वार्थ एव स्वार्थकालान्वयो व्युत्पत्तिवैचित्र्यात् , न च पचत्यपि भाविकृतिप्रागभाव. माद्यकृतिध्वंसं चादाय पक्ष्यत्यपाक्षीदिति प्रयोगप्रसङ्ग सङ्केतविशेषसम्बन्धेन धातुपदवत्त्वं धातुत्वम् , सङ्केतविशेषसम्बन्धेन प्रत्ययपद्वत्त्वं प्रत्ययत्वम् , इत्येवं तयोरप्यनुगतयोः सम्भवात् सामान्यकार्यकारणभावसम्भवेन तन्मूलकसामान्यनियमस्यापि सम्भवेन तद्भङ्गदोषस्य परिहर्तुमशक्यत्वादिति समाधत्ते-नेति। अखण्डोपा. ध्यादिरूपस्यापि धातुर्धातुरिति प्रतीतिनियामकस्य धातुत्वस्य तथैव प्रत्ययत्वस्यापि तथाभूतस्य भवत्येव सम्भवस्तथाऽप्यनभ्युपगमे आह-अन्तत इति । तदनुर माद् धात्वादेरनुगमात् । ननु सर्वत्र प्रत्ययार्थकृत्यादावेव प्रत्ययार्थवर्तमानत्वादेरन्वय उपेयते, न चोक्तकार्यकारणभावः स्वीक्रियते, नवोक्तनियमोऽपीति, हर्याोकपदोपात्तयो. सूर्याश्चाद्योरन्वयबोधाभावेऽप्येवकारपदोपात्तयोरन्वयबोधस्य दर्शनादेकपदोपात्तयोर्नान्वय इति नियमाभावाद् व्युत्पत्तिवैचित्र्येणैकपदोपात्तयोरप्यन्वयोपगमे क्षत्यभावादित्याशङ्कते-अथेति । अन्यत्रापि अन्यधातुस्थलेऽपि । कृत्यादिस्वार्थ एव कृत्यादिलक्षणप्रत्ययार्थ एव, एक्कारेण धात्वर्थ प्रत्ययार्थकालादेरन्वयव्यवच्छेदः। स्वार्थकालान्वयः प्रत्ययार्थकालान्वयः। 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः पचत्यपि पाकानुकूलवर्तमानकृतिमत्यपि पुरुषे। भावीति-भाविकृतिप्रागभावमादाय पक्ष्यतीति प्रयोगप्रसङ्गः, आद्यकृतिध्वंसमादायाऽपाक्षीदिति प्रयोगप्रसङ्ग इत्येवमन्वयः। पक्ष्यतीत्यत्राद्यकृतिप्रागभावकालवृत्तित्वमपाक्षीदित्यत्र चरमकृतिध्वंसकालवृत्तित्वं प्रत्ययार्थः, तथा च पाकानुकूलवर्तमानकृतिसद्भावकाले आद्यकृतिप्रागभावास त्वाच्चरमकृतिध्वंसासत्त्वाच्च नोक्तप्रसङ्ग इति प्रतिक्षेपहेतुमुपन्यस्यति